Manuscript Number : SHISRRJ1221218
समावेशात्मकशिक्षासमस्यायै संवैधानिकं प्रावधानम्
Authors(1) :-जयपालः समावेशात्मिका शिक्षाः कक्षायां विद्यालये च छात्राणां विविधतायाः स्वीकृतेः एका मनोवृत्तिरस्ति। यस्यां विविधाक्षमाः बालकाः सामान्यशिक्षाप्रणाल्यामेकस्यां कक्षायां सम्मिल्ल्याध्ययनं कुर्वन्ति। अस्यां शिक्षायां प्रतिभासम्पन्नैः सह सामान्याः बाधिताश्च बालकाः एकस्यां कक्षायां पूर्णकालिकीं वा अंशकालिकीं शिक्षामाप्नुवन्ति। अस्यां शिक्षायां याः समस्याः वर्तन्ते, तासां समाधानं संवैधानिकप्रावधानेन भवितुं शक्यते।
सामाजिकस्य न्यायस्य समानतायाश्च सर्वाधिकं महत्त्वपूर्णं साधनं शिक्षेति सर्वैः स्वीक्रियते। शिक्ष् विद्योपादाने इत्यस्माद्धातोः ‘गुरोश्च हलः’ इति पाणिनिसूत्रेण अ प्रत्ययः कृते सति अजाद्यतष्टाप् इत्यनेन टाप् प्रत्ययः कृते सति प्रातिपदिकत्वात् शिक्षेति शब्दः निष्पद्यते। यस्यार्थो भवति शिक्ष्यते विद्योपादीयते अनयेति शिक्षाया यया विद्यायाः उपादानं ग्रहणं च जायते सा शिक्षेति नाम्नाऽभिधीयते। विद्या इत्यस्य शब्दस्य कृते भगवता पाणिनिना पञ्चधातूणां पाठः कृतः। तद्यथा विद् ज्ञाने, विद् सत्तायाम्, विद्लृ लाभे, विद् विचारणे, विद् चेतनाख्यानमोक्षेषु च। उक्तानां धातूणामाधारेण कथयितुं शक्यते यत् यया ज्ञानं, सत्तावबोधः, लाभः, कर्त्तव्याकर्त्तव्ययोः विवेकः आत्मज्ञानं च जायते सा शिक्षेति कथयितुं शक्यते। वस्तुतस्तु यया मानवः इहलोके ससुखेन जीवनं यापयति एवञ्च अन्ते सत्यपुरं प्रति याति सा यथार्था शिक्षा भवति। प्राच्यमनीषायां विद्यायै ऋषिभिः मन्त्रद्रष्टाभिश्च यन्मूललक्ष्यमुद्घोषितं तत्तु ‘सा विद्या या विमुक्तये’ वा अविद्यया मृत्युर्तीत्वा विद्ययामृतमश्नुतेप्यादयश्च वर्तन्ते। पराऽपरेति नाम्नास्यां मनीषायामेषां द्विधा विभक्ताऽस्ति। यया विद्यया वेद-वेदाङ्ग-शस्त्र-लोकाऽभिधीयते। तत्रैव बोधादयश्च जायन्ते सा अपरेति नाम्नाऽभिधीयते। ब्रह्मविष्यकमात्मज्ञानं यया प्राप्यते सा परेति नाम्नाऽभिधीयते।
जयपालः Publication Details Published in : Volume 5 | Issue 2 | March-April 2022 Article Preview
शोधच्छात्रः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली, भारत।
Date of Publication : 2022-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 120-122
Manuscript Number : SHISRRJ1221218
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ1221218