Manuscript Number : SHISRRJ124779
पाणिनीयम् अपादानस्वरूपविवेचनम्
Authors(1) :-डॉ. अर्चना कुमारी विभिन्नानाम् आचार्याणां मते अपादानस्य स्वरूपं प्रतिपादितम्। तत्र दीक्षितभर्तृहरिकौण्डभट्टानाञ्च मते ‘अपाय’ शब्दः विश्लेषस्य हेतुभूतक्रियाया: बोधकः, नागेशमते ‘अपाय’ शब्दः गतिविशेषस्य वाचकः, ध्रुवञ्च सर्वेषां मतेऽवधिभूतमिति प्रतिपादितम्। तदनन्तरं सर्वेषां मते अपादानत्वं सोदाहरणं विवेचितम्। ततः विभाग: वास्तवसम्बन्धपूर्वको बुद्धिपरिकल्पितसम्बन्धपूर्वकश्च द्विधा विभक्तः सोदाहरणं वर्णितः। तत्पश्चाद् भर्तृहरे: चलम् अचलमिति द्विविधमपादानं सोदाहरणं विवेचितम् । ततः निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा अपेक्षितक्रियं चेति त्रिधापादानं सोदाहरणं व्याख्यातम्। तत्पश्चात् पञ्चमीविभक्तिः विवेचिता। ततः कारके इत्यधिकारस्य महत्त्वं प्रदर्शितम्। तदनन्तरं ध्रुवमपायेऽपादानम् इति सूत्रातिरिक्तत्वमपादानत्वं प्रदर्श्य महाभाष्यानुसारं ध्रुवमपायेऽपादानम् इति सूत्रेणैव बौद्धस्यापि अपादानस्य विवक्षितत्वात् सर्वेषां सूत्राणां प्रत्याख्यानं तत्र प्रतिपादितम्। एवमाहत्यात्र अपादानस्वरूपं विवेचितम् ।
डॉ. अर्चना कुमारी अपादानम्, अपायः, ध्रुवम्, विभागः, निर्दिष्टविषयः, उपात्तविषयः, अपेक्षितविषयः, विवक्षा, बौद्धापायः । Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
सहायकाचार्या, संस्कृत पालि एवं प्राकृतविभागः, हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः धर्मशाला हि. प्र.
Date of Publication : 2024-10-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 79-87
Manuscript Number : SHISRRJ124779
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ124779