अभिराजयशोभूषणम्; एकं अभिनवं काव्यशास्त्रम्

Authors(1) :-सन्दीप कुमार द्विवेदी

संस्कृतकाव्यशास्त्रपरम्परायां आचार्यभरतादारभ्य नैके काव्यशास्त्रिणः अबीभवन्। यैः स्व-स्वग्रन्थरत्नेषु काव्यशास्त्रीयतत्त्वानां समालोचनं विधत्तम्। स्वातन्त्र्योत्तरकालेऽपि अनेके आचार्याः काव्यशास्त्रपरम्परायां स्वकीयं विशिष्टमवदानं प्रदत्तवन्तः। स्वातन्त्र्योत्तरप्रणीतेषु काव्यशास्त्रग्रन्थेषु प्राचीनपरम्पराया अनुमोदनेन सह नूतनविचाराणां वर्णनं विहितं साम्प्रतिकैराचार्यैः। स्वातन्त्र्योत्तरकाले काव्यशास्त्रवि˜िः काश्चन नूतनोद्भावना अपि विहिताः। परं च न केनचिदप्याचार्येण स्वपूर्ववत्र्तिणामाचार्याणां मतेषु समन्वितिः प्रदर्शिता। एतादृशं वैषम्यमभिलक्ष्य परम्परायां स्वातन्त्र्योत्तरकाले च प्रणीतेषु काव्यशास्त्रग्रन्थेषु किन्तावत् शाश्वतं सार्वभौमिकञ्च तत्त्वं वर्तत इति मनसि निधाय आचार्याभिराजराजेन्द्रमिश्रवर्यैः स्वकीयं अभिराजयशोभूषणाभिधम् अभिनवकाव्यशास्त्रस्य ग्रन्थरत्नं प्रणीतम्। 2006तमे वर्षे वैजयन्तीप्रकाशन-इलाहाबादतः प्रकाशितोऽयं ग्रन्थः। अस्मिन् सप्तषष्ट्युत्तरपञ्चशतमिताः (567) कारिकाः उपनिबद्धाः सन्ति। आचार्य अभिराजराजेन्द्रमिश्रमहोदयानां काव्यशास्त्रीयतत्त्वानां समीक्षणविषयकः अभिनवोपन्यासः निश्चयेन प्राक्कालिकीं शास्त्रीयपरम्परामधिगन्तुं आधुनिकसन्दर्भाणा´्च परामर्शयितुं अस्मान् सर्वानप्युपकरोति। अतः अस्माभिः अस्मिन् शोधपत्रे अभिराजयशोभूषणस्य समग्रं वैशिष्ट्यं उपस्थाप्यते।

Authors and Affiliations

सन्दीप कुमार द्विवेदी
सहायक प्राध्यापक, संस्कृत विभाग, भारतीय महाविद्यालय फर्रुखाबाद, उत्तर प्रदेश, भारत।

संस्कृतकाव्यशास्त्रपरम्परा, स्वातन्त्र्योत्तरकालः, काव्यशास्त्रवि˜िः, अभिराजयशोभूषणम्, आचार्य अभिराजराजेन्द्रमिश्रः, काव्यस्वरूपम्, काव्यभेदाः, सर्जनशीलता, अर्वाचीनकाव्यविधाः, गलज्जलिका, छन्दोमुक्तकाव्यम्, लोकगीतानि, कजरीगीतम्, रसिकगीतमित्यादयः।

  1. काव्यालङ्कारकारिका, आचार्यरेवाप्रसादद्विवेदी, कालिदाससंस्थानम् वाराणसी, द्वितीयसंस्करणम् 2012
  2. अभिनवकाव्याङ्कारसूत्रम्, राधावल्लभत्रिपाठी, हिन्दीव्याख्याकारः रमाकान्तपाण्डेयः, जगदीशसंस्कृतपुस्तकालयः जयपुरम्, 2009
  3. चमत्कारविचारचर्चा, प्रो. रामप्रतापवेदालङ्कारः, विश्वेश्वरानन्दवैदिकशोधसंस्थानम् होश्यारपुरम् पंजाब2004
  4. बिल्हणविरचितविक्रमाङ्देवचरितम्, श्रीहरगोविन्दशास्त्री, चैखम्बासुरभारतीप्रकाशनम्, 2009
  5. अभिज्ञानशाकुन्तलम्, श्रीनवकिशोरकरशास्त्री, चैखम्बा-अमरभारतीप्रकाशनम् 2010
  6. अभिराजयशोभूषणम्, प्रो. अभिराजराजेन्द्रमिश्रः, वैजयन्तप्रकाशनम् इलाहाबादः, 2006
  7. दूर्वा, वीणापाणिसंस्कृतपीठम् भोपाल, द्वितीयोन्मेषः, अप्रैल-मई-जून 2005
  8. काव्यप्रकाशः, आचार्यमम्मटः, सम्पादकः आचार्यरेवाप्रसादद्विवेदी, काशीहिन्दूविश्वविद्यालयः वाराणसी।

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 262-272
Manuscript Number : SHISRRJ192327
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सन्दीप कुमार द्विवेदी, "अभिराजयशोभूषणम्; एकं अभिनवं काव्यशास्त्रम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 2, pp.262-272, March-April.2019
URL : https://shisrrj.com/SHISRRJ192327

Article Preview