Manuscript Number : SHISRRJ192505
व्याकरणे स्त्रीप्रत्ययविमर्श:
Authors(1) :-चन्द्र शेखर अत्र वेदपुरुषस्य कल्पना कृता अस्ति। वेदपुरुषस्य पादौ छन्द: अस्ति, कल्प: हस्तरूपेण परिगण्यते, चक्षु: ज्यौतिषं कथ्यते, निरुक्तं च श्रोत्रम् उच्यते एवं हि शिक्षा वेदपुरुषस्य घ्राणमुच्यते, व्याकरणञ्च वेदपुरुषस्य मुखमस्ति। अत: एतानि वेदाङ्गानि अधीत्य ब्रह्मलोकं याति जीव:। अत्र अस्मिन् व्याकरणस्य कल्पना मुखेन कृतास्ति, शरीरावयवेषु प्राय: समेऽपि अवयवा: प्रधाना: भवन्ति परन्तु तेष्वपि अवयवेषु मुखं प्रधानं भवति, यतोहि तेन व्यवहार: क्रियते। इत्थं वेदाङ्गेषु व्याकरणस्यापि प्राधान्यं स्वीकृतमस्ति। व्याकरणं प्रधानमस्तीति महाभाष्ये उक्तमस्ति- ‘प्रधानं च षट्स्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्न: फलवान् भवति’ अर्थाद् व्याकरणं प्रधानमस्ति प्रधाने च कृतो यत्न: फलवान् भवति। व्याकरणञ्च तद् शास्त्रं यत्र शब्दानां साधुत्वासाधुत्वयोर्विचार: स्पष्टतया कृत: स्याद्। प्रकृतिभ्यो प्रत्यया: पृथक्क्रियन्ते अथवा व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा: अनेनेति व्याकरणम्। अर्थाद् व्याकरणं शब्दानां सिद्धि: करोति। व्याकरणस्य लक्षणं प्रतिपादयन् भाष्यकार: पतञ्जलि: आह- ‘लक्ष्य लक्षणे व्याकरणम्’
चन्द्र शेखर Publication Details Published in : Volume 2 | Issue 5 | September-October 2019 Article Preview
शोधच्छात्र:, संस्कृतविभाग:, जा.मि.इ., नई दिल्ली, भारत
Date of Publication : 2019-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 34-41
Manuscript Number : SHISRRJ192505
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ192505