आधुनिकसमाजे यागानां प्रासङ्गिकता

Authors(1) :-डा.सुधांशुशेखरमहापात्रः

यागो नाम देवता उद्देश्येन द्रव्यत्यागः। नानाविधफललाभाय यजमानेन यागानुष्ठीयन्ते। स च यागः श्रौतस्मार्त्तभेदेन द्विविधः। श्रौतयागोऽपि त्रिविधः इष्टिः पशुः सोमश्चेति। स्मार्त्ताश्च पुनः ऋष्यादि पञ्चमहायज्ञाः। ऋषियज्ञः अथवा ब्रह्मयज्ञः, देवयज्ञः, पितृयज्ञः, नृयज्ञः अथवा अतिथियज्ञः, भूतयज्ञश्चेति। अत्र यज्ञशब्दः यागस्य पर्यायवाच्येव। पुनश्च नित्य नैमित्तिककाम्यभेदेन यागोऽयं त्रिविधः। यथा- सायं प्रातः अग्निहोत्रं जुहुयात्, वसन्ते वसन्ते सोमेन यजेत इत्यादिना विहिताः फलरहिता यागा नित्याः। ब्रह्महत्यादि पाप उपनोदायत्वानुष्ठीयमानाः अश्वमेधादियागा नैमित्तिकाः। वृष्ट्यादिकामेन क्रियमाणाः कारीर्य्यादियागाः काम्या एव इति नास्ति संशयः। तत्र शास्त्रनुसारेण प्रत्यवायनिवारणाय नित्ययागानां, पापानां क्षयाय नैमित्तिक यागानां विविध फललाभाय च काम्ययागानां अनुष्ठानं परम्परया अनादिकालात् लोके प्रवर्त्तते। यद्भवतु एतादृशानां यागानां आधुनिकसमाजे कीदृशी प्रासङ्गिकता अस्ति तद्विषये साम्प्रतम् आलोच्यते।

Authors and Affiliations

डा.सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।,भारत।

यागानां, यज्ञः, यज्ञार्थं, पञ्चमहायज्ञानाम्।

  1. सिद्धान्तशिरोमणिः –वासनाभज्यवार्तिकसहिता, ग्रहगणिताध्यायः, पृ.-11
  2. श्रीमद्भगवद्गीता- 3/10
  3. मनुस्मृतिः – 1/23
  4. मनुस्मृतिः – 2/28
  5. मनुस्मृतिः – 5/22
  6. मनुस्मृतिः – 5/39
  7. श्रीमद्भगवद्गीता- 3/14-15
  8. मनुस्मृतिः – 3/68,69
  9. मनुस्मृतिः – 3/70,71
  10. कान्वसंहिता- 36/1/9,10
  11. कालिकापुराणम्- 20/115,116
  12. विष्णुधर्मोत्तरपुराणम्, अध्यायः- 287, श्लोकः - 7

Publication Details

Published in : Volume 5 | Issue 1 | January-February 2022
Date of Publication : 2022-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 108-111
Manuscript Number : SHISRRJ2033132
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा.सुधांशुशेखरमहापात्रः, "आधुनिकसमाजे यागानां प्रासङ्गिकता ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 1, pp.108-111, January-February.2022
URL : https://shisrrj.com/SHISRRJ2033132

Article Preview