नियतोपस्थितिकार्थविचारः

Authors(1) :-डाँ. मनीष शर्मा

नवीनवैयाकरणाः नियतोपस्थितिकत्वं प्रातिपदिकार्थत्वमिति न स्वीकुर्वन्ति। अपितु नागेशभट्टाः प्रवृत्तिनिमित्ततदाश्रयत्वरुपमेव प्रातिपदिकार्थत्वं स्वीकुर्वन्ति। अस्मिन् विषये नागेशेनोक्तं लघुशब्देन्दुशेखरे परे त्वत्र सूत्रे प्रातिपदिकार्थशब्देन प्रवृत्तिनिमित्तं तदाश्रयश्च तेषामाशयश्च तेषामाशयः प्रातिपदिकार्थपदार्थेन प्रवृत्तिनिमित्तं तदाश्रयश्च तेषामाशयः । भाष्यप्रामाण्येन त्रिकं चतुष्कं पञ्चकं वा प्रातिपदिकार्थः स्वीकारे सति लिङ्गग्रहणं व्यर्थं तथा च द्विकं प्रातिपदिकार्थस्याङ्गीकारे लिङ्ग्रहणं सार्थकमिति विचार्यते। अपि च सरुपसूत्रभाष्ये जातिविशिष्टव्यक्तेरेव प्रातिपदिकार्थत्वं कथ्यते। तथाहि सरुपाणामेकशेषएकविभक्तौ इति सूत्रे भाष्यकारेणोक्तं नह्याकृतिपदार्थस्य द्रव्यं न पदार्थः द्रव्यपदार्थस्याकृतिर्न पदार्थः इत्युक्ते सति किञ्चित् प्रधानं वर्तते अन्यदुत्तरभाष्ये विहितं पूर्वोक्तनुसारेण तत्र शब्दानां जातिविशिष्टव्यक्तावेव शक्तिबोधकं तेन च विशिष्टं नामार्थः सङ्गच्छते। अतः जाति तदाश्रयश्च प्रातिपदिकार्थः।

Authors and Affiliations

डाँ. मनीष शर्मा
सचिवः‚ छत्तीसगढ संस्कृतशिक्षा सेवासंस्थान‚ भारतम्।

प्रवृत्तिनिमित्ततदाश्रयः, नामार्थः, प्रातिपदिकार्थः, गौर्वाहिकः, जातिविशिष्टव्यक्तिः, शक्यतावच्छेदकः, संसर्गमर्यदा, अनेकसमवेतत्वम्, नियतोपस्थितिकार्थः।

[1] वैयाकरणभूषणसारः कारिकासंख्या पृष्ठसंख्या 11

[1] पाणिनीय अष्टाध्यायी सूत्रसंख्या- 3-4-70

[1] पाणिनीय अष्टाध्यायी सूत्रसंख्या- 3-4-72

[1] पाणिनीय अष्टाध्यायी सूत्रसंख्या- 3-3-117

[1]  प्रौढमनोरमा हलन्तपुल्लिङ्गप्रकरणम् पृष्ठसंख्या 493

[1]  व्युत्पत्तिवादः प्रथमाविभक्त्यर्थनिरुपणम् पृष्ठसंख्या 1

[1] व्युत्पत्तिवादः दीपिकाटीका पृष्ठसंख्या 1

[1] लघुशब्देन्दु शेखरः कारकप्रकरणम् पृष्ठसंखअया 416

[1]  लघुशब्देन्दुशेखरः षट्टीकोपेतः कारकप्रकरणम् पृष्ठसंख्या 616

[1] वैयाकरणभूषणसारः नामार्थप्रकरणम् कारिकासंख्या 25 पृष्ठसंख्या 232

[1]  महाभाष्ये सरुपसूत्रे पृष्ठसंख्या 98

[1] लघुशब्देन्दुशेखरः षट्टीकोपेतः कारकप्रकरणम् पृष्ठसंख्या 616

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 107-112
Manuscript Number : SHISRRJ203326
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाँ. मनीष शर्मा, "नियतोपस्थितिकार्थविचारः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 3, pp.107-112, May-June.2020
URL : https://shisrrj.com/SHISRRJ203326

Article Preview