Manuscript Number : SHISRRJ203330
संकेतितार्थनिर्णयः
Authors(1) :-राजेश मण्डल सङ्केताद् एव शब्दार्थो ज्ञायते। यस्य शब्दस्य यस्मिन् सङ्केतः तस्मात् तदाऽर्थो बोधः। सङ्केतस्य बोधो कुतः व्यक्तितः जातितः वा इति विषये महान् प्रश्नो जागरितो भवति। तत्र नैयायिकादयः पृथक् पृथक् मतं ददति। अतएव विषयोऽयमाधारीकृत्य मया विचारः सारल्येन प्रस्तुतः। एवञ्च सर्वेषां मतमुपस्थाप्य वैयाकरणमतम् प्रतिष्ठितम्।
राजेश मण्डल सङ्केतः‚ शक्तिबोधः‚ संकेतितार्थनिर्णयः‚ मीमांसकाः‚ नैयायिकाः‚ अपोहवादिनः, वैयाकरणाः‚ बोद्धाः। प्रयोगचोदनासामञ्जस्याद् व्यक्तिः शब्दार्थः, आलम्भनविशसनप्रोक्षणादिचोदना जाता वसङ्गता भवन्ति। नहि जातिरालभ्यते विशस्यते प्रोक्ष्यते वा, अपि च षड्देया द्वादश देया चतुर्विंशतिर्देया इति न जातिः षडादिसंख्याभिर्युज्यते अपितु व्यक्तिः तस्मात् सैव शब्दार्थः।– न्यायमञ्जरी, पृ-281 तथा यदि व्यक्तावेव सङ्केतः स्यात्तदा गौः शुक्तश्चोलो डित्थादीनां विषयवभागो न प्रापनोति। तावद्विशेषणविशिष्टाया एव गो व्यक्तेः सङ्केतपात्रीकृतत्वेनैकेनैव शब्देनाभिधीयमानत्वादन्यथा शृङ्गसासानादिवैशिष्ट्येऽपि पृथक् पृथक् शब्दाभिधेयत्वं स्याद्। यदि च विषयविभागं विनाप्येकस्मिन् एव विषये युगपद् भूयसा शब्दानां प्रवृत्तिः स्यात्तादानीमिन्द्रः शक्रः पुरन्दरः इत्यादयोऽपि शब्दाः समाकालमेकस्मिन्नेव विषये प्रवर्तेरन्। तस्मान्न व्यक्तौ सङ्केतः।– अ.म. पृ-14 मीमांसकास्त गवादिपदानां जातिरेव वाच्या न तु व्यक्तिः।–श.वा,पृ 285 गौर्जायते गौर्नश्यति इत्यादौ सर्वत्र गोत्वादिजातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा व्यक्तिर्बोध्यते। व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र शक्तेरकल्पनात् तात्पर्यानुपपत्तेरपि लक्षणायां बीजत्वात्।–श.श.प्र.पृ-87 जातिमेवाकृतिं प्राहुः व्यक्तिराक्रियते यया। सामान्यं तच्च पिण्डानाकन्नबुद्धिनिबन्धना।। श्लो.वा. आकृतिवाद पृ-31 व्यक्त्याकृतिजातयस्तु पदार्थः। न्यायदर्शनम्-2.2.65 [1].जात्यावच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद् व्यक्तेर्भानं सुदुष्करम्।---श.श.प्र.का,,25 यन्नाम जात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गौचैत्रादिः। सा हि गोत्वचैत्रादिजात्यवच्छिन्नमेव गवादिकमभिधन्ते न तु गोत्वादिजातिमात्रम्। गोपदं गोत्वसङ्केतितमित्याकारग्रहाद् गामानायेत्यादौ गोत्वादिना गवादेरन्वयानुभवानुपपत्तेः एकशक्तत्वग्रहस्यानुभावकत्वेऽपि प्रसङ्गात्।----श.श.प्र.का-25 तन्मन्दं विनाऽप्याक्षेपं गामानय इत्यादितो गवादिकर्मकताकत्वेनानयनादेरन्वयबोध्याऽनुभविकत्वाद् गौर्गच्छतीत्यादौ शुद्धे गोत्वे गच्छतीत्याद्यनुभवस्यासम्भवात् स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्वादिहेतुना गवादौ साक्षात्सम्बन्धेन गतिमत्वाद्याक्षेपस्य व्यभिचारदोषेण दुःशक्यत्वाच्च। ----तत्रैव महाभाष्यम् साहित्यदर्पणम्, पृ 43 यद्यप्यर्थक्रिया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यनन्त्याद् व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते इति गौः शुक्लः चलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव सङ्केतः। - काव्यप्रकाशः पृ-32,33 द्वितीयो गुणः। शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते। - काव्यप्रकाशः-पृ-34 साध्यः – पूर्वापरीभूतावयः क्रियारूपः। काव्यप्रकाशः पृ-35 डित्थादिशब्दानामन्त्यबुद्धिनिर्गाह्य सहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन सन्नवेश्यत इति सोऽयं संज्ञारूपो यदृच्छात्मक इति। - तत्रैव गोशब्दश्रवणात् सर्वासां गोव्यक्तीनामुपस्थितौ अतस्मादश्वादितो व्यवृत्तिर्दर्शनाद् तद्व्यावृतिरूपोऽपोहो वाच्य इति बोद्धानां मतिः। - काव्यप्रकाशः, बालवोधिनी टीका पृ-35 जातेरदृष्टत्वेन विचारसहत्वात् व्यक्तेश्च क्षणिकत्वादुभयत्रापि सङ्केतस्य कर्त्तुमशक्यत्वात् गवादिशब्दानामगवादिव्यावृत्तिरूपोऽर्थः इति वैनाशकमतमित्यत्रापि व्याख्यातम्। - काव्यप्रकाशः 2.2.27 Publication Details Published in : Volume 3 | Issue 2 | March-April 2020 Article Preview
शोधच्छात्रः, व्याकरणविभागः‚ राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत
Date of Publication : 2020-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 47-53
Manuscript Number : SHISRRJ203330
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ203330