भट्टनागेशरीत्या लक्षणातत्त्वविमर्शः

Authors(1) :-विदुषी बोल्ला

वृत्तिस्त्रिधा शक्तिलक्षणाव्यञ्जनाश्च। अत्र साहित्यिकाः, नैयायिकाः, मीमांसकाः, वेदान्तिनश्च लक्षणां स्वीकुर्वन्ति, किन्तु वैयाकरणैः लक्षणा न स्वीक्रियते। एतैस्तु ‘शक्यतावच्छेदकारोप एव लक्षणा’ इति मन्यते। शक्यावच्छेदकारोप इत्यत्र शक्यः अर्थात् शक्त्या उपस्थापितः अर्थः, शक्यता शक्ये तिष्ठति, तस्याः अवच्छेदकः गङ्गात्वकाकत्वादिः, तस्याऽऽरोपः एव लक्षणा । यथा तीरे गङ्गात्वारोपः, दध्युपघातकमात्रे च काकत्वारोपः। तेन च तीरादीनां गङ्गादिना बोधो जायते। एवञ्च शक्त्या एव लक्ष्यार्थबोधसत्त्वे तदर्थं पुनः अतिरिक्ततया लक्षणावृत्तेः स्वीकारः अनावश्यक एव। एवञ्च लक्षणायाः अभावे भाष्यप्रामाण्यात्, गौरवात्, अन्याय्यत्वाच्च वृत्त्यान्यतमत्वेन लक्षणा न स्वीकरणीया। अस्याः अभावे भाष्यप्रामाण्यन्तु ‘सति तात्पर्य्ये सर्वे सर्वार्थवाचकाः’ इति वचनम्, अनेन लक्षणाभावेऽपि गङ्गापदेन तीरबोधो जायते । अत्र ‘सति तात्पर्य्ये’ इत्युक्तत्वात् वक्तुः तात्पर्य्ये सत्येव तदर्थः बुद्ध्यते, तस्मात् सर्वैः शब्दैः निखिलार्थाः न ज्ञायन्ते । अत्र भट्टपादस्तु शक्तेर्द्वैविध्यं मत्वा लक्षणायाः खण्डनं प्रदर्शितम् । तथा च शक्तिर्द्विधा प्रसिद्धाऽप्रसिद्धा च। तत्त्र मन्दान् आरभ्य तीक्ष्णं यावत् सर्वेषां बुद्धिद्वारा यस्यां शक्तौ वेद्यात्वं भवति, सा प्रसिद्धा शक्तिः, एवं सहृदयानां प्रशस्तमानसां बुद्ध्या एव वेद्यात्वं यत्र शक्तौ, सा अप्रसिद्धा शक्तिरिति कथ्यते । अस्याः लक्षणायाः मूलन्तु ‘तात्पर्यानुपपत्तिप्रतिसन्धानमे’व। अन्वयानुपपत्तिप्रतिसन्धानस्य बीजत्वे तु ‘गङ्गायां घोषः’ इत्यादौ गङ्गापदार्थादेः तीराद्यर्थेष्विव घोषादिपदार्थादेः मकराद्यर्थेषु लक्षणापत्तिः स्यात्, एतादृश लक्षणयाऽपि अन्वयानुपपत्तेः परिहारसम्भवात्।

Authors and Affiliations

विदुषी बोल्ला
सहायकाचार्य्या, व्याकरणविभागः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः, वेरालम्, गुजरातम्।, भारत।

भट्टनागेशः‚ साहित्यिकाः, नैयायिकाः, मीमांसकाः,व्याकरणम्‚ लक्षणा।

  1. साहित्यदर्पणः, श्रीविश्वनाथाचार्य्यः, चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, प्रथमसंस्करणम्, 2013
  2. काव्यप्रकाशः, श्रीमम्मटाचार्यः, सम्पादकः - डा॰ नरेन्द्रः, ज्ञानमण्डललिमिटेड, वाराणसी, षष्ठसंस्करणम्, 2010
  3. प्रौढनिबन्धसौरभम्, आचार्यविश्वनाथमिश्रः, राष्ट्रियसंस्कृतसाहित्यकेन्द्रम्, जयपुरम्, प्रथमसंस्करणम्, 2003
  4. मीमांसायां काव्यशास्त्रे च शब्दशक्तिः, विरूपाक्ष वि॰ जड्डीपाल्, अमरग्रन्थपब्लिकेशन्स, दिल्ली, प्रथमसंस्करणम्, 2002
  5. शब्दशक्तिप्रकाशिकासमीक्षणम्, डा॰ विष्णुपदमाहापात्रः, मान्यताप्रकाशनम्, मायापुरी, प्रथमसंस्करणम्, 2005
  6. वैयाकरणानामन्येषाञ्च मतेन शब्दस्वरूपतच्छक्तिविचारः, डा॰ कालिकाप्रसादशुक्लः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, प्रथमसंस्करणम्, 2001
  7. परमलघुमञ्जूषा, श्रीनागेशभट्टः, व्याख्याकारः - प्रो॰ बोधकुमारझाः, हंसाप्रकाशन, जयपुर, प्रथमसंस्करणम्, 2018
  8. परमलघुमञ्जूषा, श्रीनागेशभट्टः, व्याख्याकारः - डा॰ जयशङ्करलालत्रिपाठी, चौखम्बाकृष्णदासअकादमी, वाराणसी, चतुर्थसंस्करणम्, 2011
  9. तत्त्वचिन्तामणिः, श्रीगङ्गेशोपाध्यायः, सम्पादकः - श्रीमदुमेशमिश्रः, मिथिलाविद्यापीठः, प्रथमसंस्करणम्, 1957
  10. शब्दशक्तिप्रकाशिका, श्रीजगदीशतर्कालङ्कारः, व्याख्याकारः - श्रीयोगगुरुचरणदेवशर्म्मा, कलिकाताविश्वविद्यालयः, कलिकाता, 1914
  11. काव्यप्रकाशः, श्रीमम्मटाचार्य्यः, व्याख्याकारः - श्रीहरिशङ्करशर्म्मा, चौखम्भासंस्कृतसंस्थानम्, वाराणसी, दशमसंस्करणम्, वि॰2060

Publication Details

Published in : Volume 3 | Issue 5 | September-October 2020
Date of Publication : 2020-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 29-37
Manuscript Number : SHISRRJ20355
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

विदुषी बोल्ला, "भट्टनागेशरीत्या लक्षणातत्त्वविमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 5, pp.29-37, September-October.2020
URL : https://shisrrj.com/SHISRRJ20355

Article Preview