विवाहमुहूर्तनिर्णयविचारः

Authors(1) :-दयानन्द ए आर्

कालः शुभक्रियायोग्यो मुहूर्तः इत्यर्थेन प्रवृत्तमिदं शास्त्रं मानवजीवने बहुमिख्यस्थानमाप्नोति। यतः अस्मादेव शास्त्रसहायात् सर्वे गर्भादानादि संस्काराः प्रवर्तन्ते। तत्र च षोडशसंस्कारेषु बहुमुख्यतमः संस्कारः विवाहाख्यः लोके प्राधान्यं भजते। लोकाः एवं सर्वाश्रमाणां मूलत्वात् विवाहाख्यस्यास्य संस्कारस्य अनुष्ठानम् अत्यन्तं श्रोष्ठसमये कर्तव्यमिति लोकसिद्धम् । स च समयः सर्वविधवेधवर्जितः सन् शुभफलदः स्यात्। तस्मात् दैवज्ञेन समयस्यास्य निर्णयार्थं (कालनिर्णयार्थं) बहवो विषयाः परिशीलनीयाः भवन्ति। अयनर्तुमासपक्षतिथिवारनक्षत्राणां परिशीलनपुरस्सरं पश्चात् च लग्नादीनां विषयामाम् अर्थात् लग्न-लग्नेश-भावशुद्धि-भावप-भावकारक-भावस्थ-तद्दृष्ट-ग्रहाणां शुभाशुभत्वपरिशीलनपुरस्सरं च करणीयमिति बुधमतम्। तस्य च ज्ञानं बहुभिः संहिताग्रन्थैः उपपादितमस्ति अस्माकम् ऋषिभिःपूर्वजैः। तेषां च ग्रन्थानां परिशीलनेन नवीनैः मुहूर्तज्ञैः मुहूर्तग्रन्थाः काले काले देशे देशे च आचार-विचाराङ्गभेदेन विरचिताः सन्ति। तेषां च अध्ययनपुरस्सरं विवाहमुहूर्तनिर्णयविचाराख्यः अयं शोधप्रबन्धः जिज्ञासूनाम् उपयोगाय जिज्ञासोपशमाय च लिखितः अस्ति। अस्य च शोधप्रबन्धस्य आमूलाध्ययनेन विवाहमुहूर्तनिर्णयः कथं करणीयः इत्यस्य प्रथमिकं ज्ञानं संभवति। एवमेव शास्त्रस्य अस्य गहनत्वमपि इति मे निश्चिता मतिः। शोधप्रबन्धोऽयं नूनं लोकोपयोगाय भवतु इत्याशासे।

Authors and Affiliations

दयानन्द ए आर्
शोधच्छात्रः, जयपुर परिसरः, केन्द्रियसंस्कृतविश्वविद्यालयः, न्यू दिल्ली,भारत।

ज्यौतिषम्, संहिता, मुहूर्तः, ग्रहाः, वेधः, नक्षत्रं, वेधभङ्गः, लत्ता, लत्तादोषः, भावशुद्धिः, लग्नशुद्धिः, सप्तमभावः, पुत्रभावः, सूर्यसङ्गमदोषः, पङ्गु- अन्ध काण- बधिरदोषाः, नवांशाः, नवांशनिशेधः, योगाः, लग्नभङ्गयोगाः, लग्ने बर्ज्यग्रहाः, अष्टमभावः, सप्तमशुद्धिविचारः, गुरुदोषविचारः, लग्नभङ्गकर्तरिदोषः, अपवादाः, परिहारः।

  1. मुहूर्तचिन्तामणिः, खेमराज कृष्णदास, वेङ्गटेश्वर स्टीम् प्रेस, विक्रम-संवत् 2006
  2. मुहूर्तमार्तण्डः, केदारदत्त जोशी, मोतीलाल बनारसी दास, दिल्ली, वारणासी, 1993
  3. मुहूर्तमाधवी(कन्नडभाषापुस्तकम्), पण्डित वेङ्कटरमणशर्मा, गोकर्ण, गणेश-शङ्करजोशी, रथवीथी, गोकर्ण.
  4. संस्कारप्रकाश, गीताप्रेस, गोरखपुर, प्रथम संस्करण, संवत् –2072
  5. मुहूर्तचिन्तामणिः, तुकाराम जावजी, निर्णयसागरमुद्रणालय, शकसंवत् – 1829
  6. मुहूर्तचूडामणिः(शोधग्रन्थः), दयानन्द ए आर(शोधच्छात्रः), केन्द्रिय-संस्कृत-विश्वविद्यालयः, न्यू दिल्ली, (ग्रन्थसंपादनं प्रचलति)

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 44-54
Manuscript Number : SHISRRJ203626
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

दयानन्द ए आर्, "विवाहमुहूर्तनिर्णयविचारः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 6, pp.44-54, November-December.2020
URL : https://shisrrj.com/SHISRRJ203626

Article Preview