वास्तौ गर्भविधानम्

Authors(1) :-अव्यक्त रैणा

शिलान्यासदतिरिक्तं गर्भविन्यासस्य मयोक्तपरम्परा तत्कालीनसंस्कृतेर्विशिष्टता विद्यते । यस्यां पृथिव्यां जनः सम्पदामर्जयति, तस्याः कुक्षौ रत्न-धात्वादितत्त्वानि समर्प्य कार्यराम्भस्य विचारः गर्भविन्यासे क्रियते । गर्भविन्यासस्य प्रयोजनंसन्दर्भे ग्रन्थकारो वदति यद् देवालय-द्विजातिहर्म्यगृहेभ्यश्च गर्भविन्यासविधिं (नींवभरणादिविचारः) वक्ष्याम्यहम् ।1 समस्तद्रव्यैः सह कृतः गर्भविन्यासः सर्वदा सम्पदाशाली भवति। यदि द्रव्यादिभिर्हीनः गर्भविन्यासः क्रियते तदा गृहस्थाय सर्वविपत्तिकारणभूतो भवति । तस्मातद् गृहशिल्प्याचार्याद्यः सम्यग्रूपेण गर्भविन्यासस्य कार्यं सम्पादयेयुः ।

Authors and Affiliations

अव्यक्त रैणा
शोधच्छात्रः‚ वास्तुशास्त्रविभागः‚ श्री ला. ब. शा. रा. सं. विश्वविद्यालयः‚ नई दिल्ली।, भारत

गर्भविन्यासः‚ गर्भः‚ जनः‚ शयनगारः, प्रासादः, अर्थाः वास्तुः‚ गर्भविधानम् ।

  1. तैतिलानां द्विजातीनां वर्णानां हर्म्यके गृहे । गर्भन्यासविधः सम्यक् सङ्क्षेपाद् वक्ष्यतेऽधुना ॥ मयमुनिः, मयमतम्, 12.1
  2. सर्वद्रव्यैस्तु सम्पन्नं गर्भं तत् सम्पदां पदम् । द्रव्यहीनमसम्पम्मं गर्भं सर्वविपत्करम् ॥ मयमुनिः, मयमतम्, 12.2 तस्मात् सर्वप्रयत्नेन गर्भं सम्यग् विनिक्षिपेत् ।
  3. वामनशिवराम आप्टे, संस्कृत-हिन्दीशब्दकोशः, पृष्ठसङ्ख्या – 371-372
  4. निम्नगाह्रदसस्याद्रिपल्लिके कुलिरावटे । हलस्थलाब्धिगोशृड्गहस्तिदन्तेषु मृतिका ॥ मयमतम्, 12.5
  5. चक्रपाणिमिश्रः, राज्याभिषेकपद्धतिः, विष्णुधर्मोत्तरीयनिर्देशः, 15-17
  6. मानसारः, 12.11-17
  7. मयमतम् 12.9
  8. गृहीतोच्चत्रि भागैकं पादालम्बिविधानकम् ॥ मयमतम्, 12.11 तत्तद्धर्म्याड्घ्रिविष्कम्भसमं वाष्टांश हीनकम् । त्रिपादं वा विशालं तत् फेलायाः प्रागिवोच्छ्रयम् ॥ मयमतम्, 12.12
  9. त्रिवर्गमण्डलपाकारं वृत्त वा चतुरश्रकम् । पञ्चविंशतिकोष्ठं वा नव कोष्ठकमेव वा ॥ मयमतम्, 12.13
  10. मयमतम् 12.15
  11. स्थण्डिले चण्डितं कृत्वा मण्डुकं वाऽथ तत्परम् । विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया ॥ मयमतम्, 12.17
  12. आराध्य गन्धपुष्पाद्यैर्भुवनाधिपतिं जपेत् । स्थपतिः कलशान् न्यस्य सर्वान् वस्त्रविभूषितान् ॥मयमतम्, 12.18
  13. सुगन्धोदकसम्पूर्णान् गन्धपुष्पसमर्चितान् । निष्कलड्कानसुषिरान् पञ्चपञ्चैव सूत्रितान् ॥ मयमतम्, 12.19
  14. तस्य प्रदक्षिणे गन्धशालिस्थण्डिल मण्डले । आराध्य गन्धपुष्पाद्यैर्बलिं दत्त्वा यथाविधि ॥ मयमतम्, 12.20
  15. हेमराजतशुल्बैश्च शालिव्रीहिकुलत्थकान् ॥ मयमतम्, 12.23 त्रपुणा कड्कु सीसेन माषो मुद्गोऽयसायसा । कोद्रवं च तिलं भाव्यं वैकृन्तेन प्रयत्नतः ॥  मयमतम्, 12.24 ईशादिषु न्यसेदेतान्यष्टदिक्षु यथाक्रमम् ।
  16. जयन्ते जातिहिड्गुल्यं हरितालं भृशे मतम् ॥ मयमतम्, 12.25 मनः शिला च वितथे भृड्गराजे तु माक्षिकम् । राजावर्त्तं तु सुग्रीवे शोषे गौरिकमीरितम् ॥ मयमतम्, 12.26 अञ्चनं गणमुख्ये स्यादुदितौ दरदं विदुः ।
  17. मध्ये पद्मरागं तु मरीचौ विद्रुम मतम् ॥ मयमतम्, 12.27 सविन्द्रे पुष्यरागं र्तुं वैडूर्यं स्याद् विवस्वति । वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ॥ मयमतम्, 12.28 रुद्रराजे महानीलं मरकतं तु महीधरे । मुक्तापवत्से मध्यादिपूर्वेण क्रमशो न्यसेत् ॥ मयमुनिः, मयमतम्, 12.29
  18. विष्णुक्रान्ता त्रिशूला श्रीः सहा दूर्वा च भृड्गकम् । अपामार्गैकपत्राब्जमीशादिष्वौषधं न्यसेत् ॥ मयमुनिः, मयमतम्, 12. 30
  19. चन्दनागरुकर्पूरलवड्गैलालताफलम् । तक्कोलेनाष्टगन्धांस्तु जयन्तादिषु विन्यसेत् ॥ मयमतम्, 12.31
  20. कार्तस्वरमयं चाष्टमड्गलमं तत्र पूर्ववत् । दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ॥ मयमतम्, 12.34
  21. श्रीवत्सं स्वस्तिकं शड्खं दीपं देवाष्टमड्गलम् । स्थापकस्यानुशिष्यस्तान् स्थपतिः क्रमशो न्यसेत् ॥ मयमतम्, 12.35
  22. आच्छाद्य भाजनं शुभ्रं पिधानेन तु निश्चलम् । तमेवाराध्य गन्धाद्यैः स्त्रापयेत् कलशोदकैः ॥ मयमतम्, 12.36
  23. विप्रस्वाध्यायषैश्च शड्खभेर्यादिनिः स्वनैः । कल्याणजयघोषैश्च स्थपतिः स्थापकेन तु ।। मयमतम्, 12.37
  24. पुष्पकुण्डलहारादिकटकैरड्गुलीयकैः । पञ्चाड्गभूषणैर्हेमनिर्मितैश्च विभूषणैः ॥ मयमतम्, 12.38
  25. हेमयज्ञोपवीतस्तु नववस्त्रोत्तरीयकः । श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः ॥ मयमतम्, 12.39
  26. ध्यात्वा धरातलं सर्वं दिग्निद्वपेन्द्रसमन्वितम् । ससागरं सशैलेन्द्रमनन्तस्योपरि स्थिरम् ॥ मयमतम्, 12.40
  27. सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् । ब्रह्मादीनां च देवानां द्वारदक्षिणे ॥ मयमतम्, 12.41
  28. स्तम्भमूले यथायोग गर्ते गर्भं निधापयेत् । होमस्तम्भे प्रतिस्तम्भे पादुकाच्च प्रतेरधः ॥ मयमतम्, 12.42
  29. तस्मादत्युन्नतं निस्नं गर्भं सम्पद्विनाशकृत् । चतुरश्रीकृता सारवृक्षपाषाणनिर्मिता ॥ मयमतम्, 12.43
  30. पात्रद्विगुणविस्तारा पञ्चाड्गुल घनान्विता । प्रतिमाफलका या सा स्थाप्या तद्भाजनोपरि ॥ मयमतम्, 12.44
  31. तदूर्ध्वे स्थापयेत् स्तम्भं संश्र्लिष्टचतुरिष्टकम् । सरत्नौषधिभिर्युक्तं वस्त्र पुष्पादिशोभितम्॥ मयमतम्, 12.45
  32. विष्णुधिष्णे च गर्भं स्याद्धैमं चक्रं तु मध्यमे ॥ मयमतम्, 12.46
  33. शड्खकार्मुक दण्डं च रुक्ममायसनन्दकम् । 2 धनुः शड्खं च वामे तु खड्ग दण्डं च दक्षिणे ॥ मयमतम्, 12.47
  34. प्रमुखे वैनतेयं च स्थापयेद्धेमनिर्मितम् । 3 यज्ञोपवीतमोड्कारं स्वस्तिकाग्निं च हेमजम् ॥ मयमतम्, 12.48
  35. पद्यं कमण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः । ब्रह्मासनपदे मध्येऽग्नबुरुहं स्थाप्यमेव च ॥ मयमतम्, 12.49
  36. तस्मान्मध्ये तदोड्कारं यज्ञसूत्रावृतं तु यत् । स्वस्तिकानि चतुर्दिक्षु वामे स्थाप्यं कमण्डलु ॥ मयमतम्, 12.50
  37. कुशाक्षमालं वामे तु पुरे तीक्ष्णानलं क्षिपेत् । ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थाने प्रतिष्ठितम् ॥ मयमतम्, 12.51
  38. स्वस्तिकं चाक्षमालां च शक्तिं चक्रं च कुक्कुटम् । मयूरं चैव सौवर्णमयसा शक्तिमध्यमे ॥ मयमतम्, 12.52
  39. अम्बुजं चाड्कुशं पाशं सिंहं सवितृधामके । वज्रेभं नन्दकं चक्रं चामरे धाम्नि वज्रिणः ॥ मयमतम्, 12.54
  40. जाम्बूनदमयं मेषं शक्तिं पावकधामनि । अयसा महिषं पाशं हेमजं यमधामनि ॥ मयमतम्, 12.55
  41. अयसा नन्दकं गर्भं निर्ऋतेस्तु विमानके । वरुणे मकरं पाशं लोहजं हेमजं तथा ॥ मयमतम्, 12.56
  42. वायोः कृष्णमृगं हैमं व्यालं तारापतेः क्षिपेत् । नरवाहे नरः प्रोक्तो मकरो मदनालये ॥ मयमतम्, 12.57
  43. टड्कं दन्ताक्षमाला च विघ्नेशावासगर्भके । ओड्कारं वक्रदण्डं च सौवर्णं चार्यास्य तु ॥मयमतम्, 12.58
  44. अश्वथं करकं सिहं छत्रं स्वर्णेन कारयेत् । अश्वथं पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् ।।
  45. कुण्डिकापरभागे तु केसरी दक्षिणे भवेत् । सौगते धामके गर्भं श्रीवत्साशोकसिंहकम् ॥ मयमतम्, 12.59- 60
  46. कमण्डल्वक्षमाला च शिखिपिञ्छं तु हेमजम् । त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् ॥ मयमतम्, 12.61
  47. वृक्षस्तु पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् । पिञ्छं दक्षिणभागेऽक्षमाला वामे तु कुण्डिका ॥ मयमतम्, 12.62
  48. श्रीरूपं मध्यमे स्थाप्यं केसरीं तत्र विन्यसेत् । अपरे करकं तालवृन्तं गर्भौ जिनालये ॥ मयमतम्, 12.63
  49. शुकं चक्रं च हैमं तु सिंहं शड्खं च राजतम् । मृगं ताम्रमयं चैव कृष्णलोहेन नन्दकम् ॥ मयमतम्, 12.64
  50. एवं दुर्गाविमाने तु गर्भं कुर्याद् विचक्षणः । खट्वाड्गनन्दकं शक्तिं क्षेत्रपालस्य हेमजम् ॥ मयमतम्, 12.65
  51. पद्यं लक्ष्म्याः सरस्वत्या ओड्कारं च त्रिवर्णकम् । ध्वाड्क्षकेतूत्पलं हैमं ज्येष्ठाकोष्ठस्य गर्भके ॥ मयमतम्, 12.66
  52. कपालशूलघण्टाभिः प्रेतान् कालीगृहे न्यसेत् । हंसोक्षशिखितार्क्ष्यांश्च सिंहेभप्रेरूपकान् ॥ मयमतम्, 12.67
  53. जाम्बूनदमयान् मातृकोष्ठकेषु निधापयेत् । चित्रध्वजपताकाश्च सचिह्नैः सह वाहनैः । अनुक्तानां च देवानां देवीनां गर्भमिष्यते ॥ मयमतम्, 12.70
  54. द्विजातीनां तु वर्णानां जातिगर्भो विधीयते । करकं दण्डकाष्ठं च शुल्बं हेममयं भवेत् ॥ मयमुनिः71
  55. यज्ञोपवीतं यज्ञाग्निं यज्ञभाण्डं च राजतम् । यज्ञोपवीतमध्यस्थं यज्ञभाण्डं च दक्षिणे ॥ मयमतम्, 12.72
  56. वामे तु करकं काष्ठमनलं पुरतो भवेत् । विप्रगर्भमिदं प्रोक्तं स्वस्तिकानि चतुर्दिशि ॥ मयमतम्, 12.73
  57. 4 मध्ये हेममयं चक्रं वामे शड्खं च राजतम् । कार्मुकं ताम्रजं वामे दण्डो रुक्मेण दक्षिणे ॥ मयमतम्, 12.74
  58. खड्गं चायसमेव स्याच्चतुर्नागाश्चतुर्दिशि । हैममायसकं ताम्रं राजतं क्रमशो न्यसेत् ॥ मयमतम्, 12.75
  59. मध्ये श्रीरुपकं हैमं स्वस्तिकानि चतुर्दिशि । छत्रध्वजपताकाश्च दण्डं वै शासनात्मकम् ॥ मयमतम्, 12.76
  60. राजद्वारे भवेद् गर्भमन्येषां तु यथार्हकम् । वार्ष्णेयकानां गर्भं चेद् विजयद्वारदक्षिणे ॥ मयमतम्, 12.77
  61. अयसा हलजिह्वां च शड्खं ताम्रकुलीरकम् । पञ्चायुधं सीसमाषं वृषगजौ हरिम् ॥ मयमतम्, 12.78
  62. अर्काग्निवरुणेन्दूनां स्थाने सम्यड्निवेशयेत् । बीजपात्रं हलं हैमं ताम्रजं युगामिष्यते ॥ मयमतम्, 12.80
  63. रजतेन पशु विद्याच्चतुर्दिक्षु विनिक्षिपेत् । मध्ये गोपुड्गवं चैव तन्निरीक्ष्य युगं पुनः ॥ मयमतम्, 12.81
  64. हलं दक्षिणभागे तु वामांशे बीजपात्रकम् । बीजं हिरण्यमयं शूद्रगर्भं वैश्ये च सम्मतम् ॥ मयमतम्, 12.82
  65. पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते । दक्षिणे नेत्रभित्तौ तु सौम्यादौ तु चतुर्गहे ॥ मयमतम्, 12.84
  66. दक्षिणे भवने गर्भः कुम्भः शाल्युदपूरितः ॥ मयमतम्, 12.86
  67. धनसद्मनि गर्भस्तु सार्गलं कुञ्चिकं भवेत् । सभाप्रपामण्डपेषु कर्णपादे प्रदक्षिणे । द्वितीयस्तम्भके द्वारदक्षिणाड्घ्रौ तु वा न्यसेत् ॥ मयमतम्, 12.89
  68. अयोमयगजो गर्भः कृष्णलोहेन कोद्रवः । लक्ष्मीं सरस्वतीं हेमां पात्रमध्ये तु विन्यसेत् ॥ मयमतम्, 12.90
  69. गर्भो नाट्यसभायां च प्रक्षिपेत् कुटिकामुखे । मण्डितस्तम्भमूले वाऽप्युभयोरपि चेष्यते ॥ मयमतम, 12.91
  70. अतोद्यानि च सर्वाणि सर्वलोहमयानि च । 5श्रीवत्सं पड्कजं पूर्णकुम्भं हेमजमिष्यते ॥ मयमतम्, 12.92
  71. हेमगर्भसभागर्भो द्वारस्तम्भे विधीयते । पूर्वोक्तकर्णपादे वा गर्भस्थानं तु तस्य वै ॥मयमतम्, 12.93
  72. तुलाभाराभिषेकार्थं मण्डपे वाऽथ तद्भवेत् ।

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 109-118
Manuscript Number : SHISRRJ214220
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

अव्यक्त रैणा , "वास्तौ गर्भविधानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 4, Issue 2, pp.109-118, March-April.2021
URL : https://shisrrj.com/SHISRRJ214220

Article Preview