पाणिनीयकाशकृत्स्नधातुपाठयोः अदादिजुहोत्यादिगणधातूनां तुलना

Authors(1) :-कोङ्क कुमारस्वामि

संस्कृतजगति लौकिकवैदिकशब्दानामनुगुणं तत्तद्व्याकरणधातुपाठादयोश्च तत्तत्कालेषु प्रसिद्धाः जाताः। सर्वान्ते पाणिनीयव्याकरणम्, धातुपाठश्च सर्वसम्मतत्वेन विराजेते। पाणिनीयधातुपाठात् पूर्वमपि स्थितेषु धातुपाठेषु काशकृत्स्नधातुपाठः अन्यतमः। एतयोस्तुलनया ज्ञायन्ते प्रयुक्ताः तत्तत्कालिकलौकिकधातवः। अतोऽत्र पाणिनीयकाशकृत्स्नधातुपाठयोः अदादिजुहोत्यादिगण धातूनां तुलनात्र विहिता। वस्तुतः पाणिनीयधातुपाठे अदादिगणः, जुहोत्यादिगणः पाथक्येन पठितः, काशकृत्स्नधातुपाठे तु जुहोत्यादिगणः अदादिगणान्तर्भूतो वर्तते । अत्र अदादिजुहोत्यादिगणधातुनां तुलनां कृत्वा ईषत्समानाः धातवः इति विभज्य तत्रस्थानां धातूनां मूलधात्वर्थनिर्देशानुबन्धवर्ण- वर्तमानकालिकरूपादिषु भेदाः सविवरणं स्पष्टीकृताः। ततः परं केवलं काशकृत्स्नधातुपाठे एव पठिताः धातवः काशकृत्स्नधातुव्याख्यानुगुणं व्याख्याताः। अवशिष्टाः धातवः मूलधात्वर्थनिर्देशवर्तमानकालिकरूपदृष्ट्या समानास्सन्ति।

Authors and Affiliations

कोङ्क कुमारस्वामि
शोधच्छात्रः, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

मूलधातुः, धात्वर्थनिर्देशः, वर्तमानकालिकरूपम्, अनुबन्धवर्णः, अदादिगणः, जुहोत्यादिगणः, काशकृत्स्नधातुव्याख्यानम्, ईषत्समानाः धातवः, केवलकाशकृत्स्नधातवः, विविधधातव इत्यादयः।

  1. संस्कृत व्याकरणशास्त्र का इतिहास, युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, 1984.
  2. (पाणिनिमुनिप्रणीता) अष्टाध्यायी, पण्डित ब्रह्मदत्त जिज्ञासु, रामलाल कपूर ट्रस्ट, 2009.
  3. काशकृत्स्नधातुव्याख्यानम्, युधिष्ठिर मीमांसकः, भारतीय प्राच्यविद्या प्रतिष्ठानम्, 1887.
  4. काशकृत्स्नव्याकरणम्, युधिष्ठिर मीमांसकः, भारतीय प्राच्यविद्या प्रतिष्ठानम्, 1887.
  5. क्षीरतरङ्गिनी(पाणिनीयधातुपाठस्य पश्चिमोत्तरपाठस्य व्याख्या), युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, 2006.
  6. बृहद्धातुकुसुमाकरः, हरेकान्त मिश्रः, चौखाम्बा संस्कृत प्रतिष्ठान, 2011.
  7. (महामुनि-पाणिनिप्रणीतः) धातुपाठः, नरेश झा, चौखाम्बा संस्कृत प्रतिष्ठान, 2008.

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 11-17
Manuscript Number : SHISRRJ22562
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

कोङ्क कुमारस्वामि, "पाणिनीयकाशकृत्स्नधातुपाठयोः अदादिजुहोत्यादिगणधातूनां तुलना", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.11-17, November-December.2022
URL : https://shisrrj.com/SHISRRJ22562

Article Preview