Manuscript Number : SHISRRJ22567
संस्कृतशिक्षणे व्याकरणानुवादविधेः योगदानम्
Authors(1) :-डा. विश्वजित् प्रामाणिकः संस्कृतशिक्षणे बहूनां विधीनाम् उपयोगः क्रियते। एतेषु विधिषु व्याकरणानुवादविधिः कश्चन विशेषः विधिः वर्तते। व्याकरणनियमान् आश्रित्य अनुवादपद्धत्या अत्र भाषाणां शिक्षणं दीयते। आदौ कश्चन अध्येता मातृभाषायां संस्कृतभाषायां वा विद्यमानस्य भागस्य अनुवादं करोति। अनुवादकरणसमये सः अध्येता आचार्यान् पृष्ट्वा अनुवाददोषान् दूरीकर्तुं व्याकरणस्य आश्रयं स्वीकरोति। व्याकरणस्य नियमानाम् आश्रयेण वाक्यानि शुद्धानि करोति। तदवसरे अध्येता व्याकरणाध्ययनमपि साधयति। एवम् उक्तां प्रक्रियाम् आदाय अयं विधिः कार्यं विधत्ते इति कारणात् अस्य विधेः नाम व्याकरणानुवादविधिः। वैदेशिकभाषाणाम् अध्यापनार्थम् अस्य विधेः आविष्कारः अभूत्। विशिष्य लैटिन, फ्रेन्च इत्यादयः भाषाः अनेन विधिना पाठ्यन्ते स्म। क्रमशः संस्कृताध्ययनमपि अनेन विधिना क्रियते। भण्डारकरवर्यः अस्य विधेः आवश्यकताम् अनुभूय प्रप्रथमम् आरब्धवान् इति कारणात् अस्य विधेः नाम भण्डारकरविधिः इत्यपि उच्यते। संस्कृतशिक्षणे महत् उपकरोति अयं विधिः।कश्चन मातृभाषाभाषी जनः यदि संस्कृताध्ययनं कर्तुं वाञ्छति तर्हि अनेन विधिना तत् साधयितुं शक्नोति। नूतनसंस्कृताध्येतारः अनेन विधिना बहुधा संस्कृताध्ययनार्थं प्रवर्तते। यद्यपि अत्र केवलं व्याकरणस्य अनुवादस्य च महत्त्वं दीयते, रसानुभूतिः न भवति, छात्रकेन्द्री वर्तते अयं विधिः तथापि क्रमशः सावकाशम् अनेन विधिना संस्कृताध्ययनं कार्यते चेत् संस्कृताध्ययनक्षेत्रे महान् विकासः भवितुम् अर्हति। एतद्विधिप्रयोगकारणात् अध्येता द्विधा लाभं प्राप्तुम् अर्हति। अध्येता अनुवादमपि शिक्षते पुनश्च व्याकरणस्य प्रयोगान् सूत्राणां कण्ठस्थीकरणादिकमपि जानाति। एवं वर्तते संस्कृतव्याकरणानुवादविधिः।
डा. विश्वजित् प्रामाणिकः व्याकरणम्, अनुवादः, विधिः, भण्डारकरविधिः, संस्कृतशिक्षणम् Publication Details Published in : Volume 5 | Issue 6 | November-December 2022 Article Preview
अनौपचारिकसंस्कृतशिक्षकः, मुक्तस्वाध्यायपीठम्, केन्द्रीयसंस्कृतविश्वविद्यालयः, जनकपुरी, नवदेहली, भारत।
Date of Publication : 2022-12-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 57-64
Manuscript Number : SHISRRJ22567
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ22567