वेदार्थप्रतिपत्तये पाणिनीयव्याकरणदृष्ट्या स्वराणां विवेचनम्

Authors(1) :-डॉ॰ विदुषी बोल्ला

अस्मिन् जगति यावन्तो हि व्यवहारास्ते शब्दाधीनाः। शब्दानाञ्च स्वात्मरक्षा व्याकरणाधीना। अत एव शास्त्रमिदं शब्दानुशासनमित्यनर्थान्तरं लभते। तत्त्र अनुशासितव्याः कतमाः शब्दाः इति प्रतिभावतां चेतसि प्रश्नः समुदेति। जिज्ञासेयं शमयन्तो भगवन्तो महाभाष्यकृतः ऊचुः – लौकिकानां वैदिकानाञ्च। तत्त्र लौकिकास्तावत् गौः, अश्वः, पुरुषः हस्ती, शकुनिः, मृगः, ब्राह्मणः इति। वैदिकाः खल्वपि – शन्नो देवीरभिष्टये, इषे त्वोर्जे त्वा, अग्निमीळे पुरोहितम्, अग्न आ याहि वीतय इति। ईदृच्छब्दराशित्वेनोपलभ्यमानस्य वेदस्य व्याकरणेन सम्बन्धः इत्यत्र नास्ति लेशतोऽपि सन्देहो भाषातत्त्वविदां विचक्षणानाम्। तत्त्रापि स्वेच्छानुसारेण वेदार्थप्रतिपत्तिं निवारयितुं ऋषभिः केचन उपायाः प्रकल्पिताः – ते स्वराः (उदात्तानुदात्तस्वरिताश्च), अष्टविकृतयश्च (जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः॥ इति)। शोधपत्त्रेऽस्मिन् पाणिनीयव्याकरणदृष्ट्या स्वरविषयकान् काञ्चनांऽशान् प्रतिपिपादयिषामि। विषयस्य विमर्षणीयाः अंशास्तावत्

Authors and Affiliations

डॉ॰ विदुषी बोल्ला
सहायकाचार्य्या, व्याकरणविभागः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः, वेरावलम्, गुजरातम्, भारत।

स्वरपदार्थतः, स्वरः, स्वरभेदाः, पाणिनीयव्याकरणम्, स्वरविधानम्, स्वराणां प्रयोजनम्, समासार्थबोधः, पदार्थबोधः, वाक्यार्थबोधः, अदृष्टसिद्धिः, उदात्तः, अनुदात्तः, स्वरितः, एकश्रुतिश्च।

  1. पाणिनीयः अष्टाध्यायीसूत्रपाठः, सम्पादकः – श्री प॰ ब्रह्मदत्तजिज्ञासु, राधाप्रेस, देहली, सप्तदशं संस्करणम्, 2005
  2. वैदिकवाङ्मयस्येतिहासः, डॉ॰जगदीशचन्द्रमिश्रः, चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, प्रथमसंस्करणम्, 2009
  3. शुक्लयजुर्वेदप्रातिशाख्यम्, डॉ॰ वीरेन्द्रकुमारवर्मा, चौखम्बासंस्कृतप्रतिष्ठानम्, दिल्ली, प्रथमसंस्करणम्, 2010
  4. यास्कप्रणीतं निरुक्तम् (निघण्टुसहितम्), प॰ सीतारामशास्त्री, परिमलपब्लिकेशन्स, दिल्ली, षष्ठसंस्करणम्, 2014
  5. ऋग्वेदभाष्यभूमिका हिन्दीव्याख्योपेता, प॰ श्रीजगन्नाथपाठकः, चौखम्बविद्याभवनम्, वाराणसी, सप्तमसंस्करणम्, 1995
  6. माध्यन्दिनशतपथब्राह्मणम्, प्रो॰ युगलकिशोरमिश्रः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी, प्रथमसंस्करणम्, 2004
  7. आधुनिक भाषा विज्ञान एवं हिन्दी भाषा संवर्धन, डॉ॰ पीताम्बर, नीलम प्रकाशन, आगरा, प्रथमसंस्करणम्, 1990
  8. आधुनिक भाषाशास्त्र सिद्धान्तालु, डॉ॰ पी॰ एस॰ सुब्रह्मण्यम्, पद्मश्री ग्राफिक्स, गान्धीनगर, हैदराबाद, प्रथमसंस्करणम्, 1997
  9. भाषातत्त्वदीपिका, श्रीहरिगोपालोपाध्याय, नवलकिशोर प्रेस, लखनऊ, 1881
  10. भाषालोचन, पण्डितप्रवर आचार्य श्रीसीताराम चतुर्वेदी, हिन्दी साहित्य कुटीर, बनारस, 1954
  11. संस्कृत व्याकरण की उपक्रमणिका, श्री ईश्वरचन्द्र विद्यासागर, श्रीलक्ष्मीनारायण प्रेस, बनारस, 1931
  12. संस्कृत शास्त्रों का इतिहास, आचार्य बलदेव उपाध्याय, नया संसार प्रेस, वाराणसी, प्रथमसंस्करणम्, 1969
  13. संस्कृतव्याकरण संग्रहमु, साहिति सदन, तिरुपति, 1976
  14. व्याकरण-महाभाष्य (प्रथम आह्निकत्रय), अनुवादकः चारुदेव शास्त्री, मोतीलाल बनारसीदास, देहली, प्रथमसंस्करणम्, 1962

Publication Details

Published in : Volume 6 | Issue 1 | January-February 2023
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 08-11
Manuscript Number : SHISRRJ23162
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰ विदुषी बोल्ला, "वेदार्थप्रतिपत्तये पाणिनीयव्याकरणदृष्ट्या स्वराणां विवेचनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 1, pp.08-11, January-February.2023
URL : https://shisrrj.com/SHISRRJ23162

Article Preview