श्रीरामलक्ष्मणसीतानां तापसानामाश्रममण्डले आतिथ्यविषये विषमपदार्थटीकादिशा समीक्षणम्

Authors(2) :-सुभाषिनी उमरावः, डॉ. नीरजतिवारी

तत्राश्रममण्डले श्रीरामस्य सौकुमार्यं रूपसंहननं तेजकान्तिर्युतं च मुखं दृष्ट्वा सर्वेऽपि वनवासिनः ऋषिमहर्षयश्च आश्चर्यभूता बभूवुः। अग्नितुल्यपरमतेजस्विमहर्षिभिः कन्दमूलफलपुष्पैः विधिवत्सत्कृत्य सम्पूर्णं स्वाश्रममपि श्रीरामं समर्पितवन्तः तथा च निवेदितवन्तः- हे रघुनन्दन ! दण्डधरः धर्मपालकः महायशस्वी राजा भवान् सर्वैश्च पूजनीयः सर्वेषामपि गुरुः विद्यते। अस्मिन् भूतले इन्द्रादिलोकपालकानामेव चतुर्थांशः विद्यमाने सति सः प्रजानां रक्षितारः, अतः राजा सर्वेभ्योऽपि वन्दनीयो भवति उत्तमान् भोगान् उपभुङ्क्ते च। वयं भवद्विषयवासिनः, भवता वयं रक्ष्याः। यथा गर्भस्थभूतं बालकं माता रक्षति, तथैव भवता वयमपि रक्षणीयाः। एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च वन्यैः विविधाहारैः राघवमपूजयन्।

Authors and Affiliations

सुभाषिनी उमरावः
शोधच्छात्रा, संस्कृतसाहित्यविद्याशाखा, केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः।
डॉ. नीरजतिवारी
निर्देशकः, संस्कृतसाहित्यविद्याशाखा, केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः।

श्रीरामः, लक्ष्मणः, सीता तापसानामाश्रममण्डलः, विषमपदार्थटीकादिशा, रामायणः, साहित्यम्।

  1. रामायणस्यारण्यकाण्डस्य देवरामभट्टकृतविषमपदार्थव्याख्यानटीका-(राजस्थानप्राच्यविद्याप्रतिष्ठान- अलवरतः प्राप्ता)
  2. रामायणस्यारण्यकाण्डस्य देवरामभट्टकृतविषमपदार्थव्याख्यानटीका-(एशियाटिकसोसायटी-पश्चिमबंगाल- कलिकातः प्राप्ता)
  3. वाल्मीकिरामायणम्-गोविन्दभवन, गीताप्रेस, गोरखपुर ।
  4. रामायणम्, तिलकभूषणशिरोमणिटीकात्रयेणोपस्कृतम्-परिमल पब्लिकेशन्स, दिल्ली, 20021

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-101
Manuscript Number : SHISRRJ236519
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सुभाषिनी उमरावः, डॉ. नीरजतिवारी , "श्रीरामलक्ष्मणसीतानां तापसानामाश्रममण्डले आतिथ्यविषये विषमपदार्थटीकादिशा समीक्षणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.95-101, September-October.2023
URL : https://shisrrj.com/SHISRRJ236519

Article Preview