Manuscript Number : SHISRRJ236521
श्रीभोगीश्वरप्रणीतयोगरत्नप्रदीपिकायां जीवन्मुक्तिः
Authors(1) :-मृदुल सोनोवाल तत्त्वान्वेषणपरेषु भारतीयदर्शनेषु परमपुरुषार्थः मोक्षः इति निरूपितम् तस्य परमपुरुषार्थस्य प्राप्तिरेव जीवस्य चरमलक्ष्यम्। तस्य परमपुरुषार्थस्य मोक्षस्य वा प्रतिपादनं वेदेषु वर्तते। वेदाः त्रिभागेषु विभक्ताः। कर्मोपासनाज्ञानकाण्डभेदात्। वैदानां ज्ञानकाण्ड वेदान्तदर्शनमुत्तरमीमांसा इतिनाम्नाऽपि व्यवहारं क्रियते। दर्शनानां शिरोमणिर्वेदान्तदर्शनम्। वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि। एतदर्शनमूलाधारभूताः प्रस्थानत्रयनाम्ना व्यपदिश्यमाना उपनिषद्ब्रह्मसूत्रभगवद्गीताः। तेषु ग्रन्थेषु उपनिषत् श्रुतिप्रस्थाने, श्रीमद्भगवद्वगीता च स्मृतिप्रस्थाने अन्तर्भवति। ब्रह्मसूत्रोपरि बहुभाष्याणि बहुमतानुयायीनि रचितान्युपलभ्यन्ते। वेदान्तदर्शनस्य मुख्याधारा उपनिषदः एवं भगवता बादरायेणन रचितानि ब्रह्मसूत्राणि। किन्त्येतानि दार्शनिक दृष्टिकोणेन संक्षिप्तानि सन्ति। भाष्यसाहाय्यं विना तेषां स्पष्टज्ञानं न जायते। अत एतेषां सूत्राणां व्याख्या विभिन्नभाष्यकारैः स्वस्वमत्या काले काले कृताः। अस्यां परम्पराया …….श्री भोगेश्वराचार्यः अपि अन्यतमः। अतः मया श्रीभोगीश्वरप्रणीतयोगरत्नप्रदीपिकायां जीवन्मुक्तिः इति विषयमाश्रित्य शोधलेखः प्रस्तूयते।
मृदुल सोनोवाल मुक्तिः, मोक्षः, त्यागः, जीवात्मा, ब्रह्म, माया, कर्म, परमात्मा इत्यादयः Publication Details Published in : Volume 6 | Issue 5 | September-October 2023 Article Preview
शोधच्छात्रः, Department of Research & Publication, राष्ट्रीयसंस्कृतविश्वविद्यालयः,तिरूपति ।
Date of Publication : 2023-09-11
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 106-110
Manuscript Number : SHISRRJ236521
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236521