Manuscript Number : SHISRRJ23662
सांख्यकर्मज्ञानयोगनयेषु प्रतिफलितनैतिकभावना
Authors(1) :-खोकनदासः नी-प्रापने अथवा नी-नये इति धातोः क्तिन् प्रत्यये नीतिशब्दः निष्पद्यते। शब्दोऽयं Ethos इति ग्रिक्-शब्दात् उद्धृतः। Ethos इत्यस्य अर्थः जातेः समाजविशेषस्य वा विशिष्टनीतितत्त्वम् नैतिकपरिवेशः वा। विविधकोशग्रन्थेषु नीतिशब्दस्य वहुविधोऽर्थोल्लिखितः। यथा-निर्देशनम्, प्रवन्धः, नीतिकौशलम्, व्यवहारकुशलता इत्यादयः। एतदर्थेभ्यः अवगन्तुं शक्यते यत्–नीतिशास्त्रं भवति सर्वविधप्रयोजनस्य सिद्धिदाता तथा सर्वार्थसाधकम्। एतत्प्रसङ्गे भर्तृहरिनोक्तम्–‘सर्वस्य लोचनं शास्त्रं नीतिविद्यां ददाति च’ (नीतिशतकम्) । अर्थात् समये क्रार्ये च व्यवहृता नीतिः द्रुतमेव साफल्यं प्रयच्छति। प्रायशः सर्वविधशास्त्रेषु एव नीतिबोधस्य प्रयोगः अर्थात् प्रतिफलनं दरीदृश्यते। अर्थात् वैदिक-पौराणिक-काव्यादिसाहित्येषु नीतिविषयकमालोचनं समुपलभ्यते। अतः मया सांख्यकर्मज्ञानयोगनयेषु प्रतिफलितनैतिकभावना इति शीर्षकमाश्रित्य कथं श्रीमद्भगवद्गीतायां तद्विचारः विहितः इति स्वल्पमतिना मया शोधलेखोऽयं विलिख्यते।
खोकनदासः नीतिः, श्रीमद्भागवद्गीता, श्रीकृष्णः, धर्मः, अधर्मः, दुःखम्, संसारः। Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
शोधछात्रः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।
Date of Publication : 2023-11-11
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-05
Manuscript Number : SHISRRJ23662
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ23662