लकारेषु विधिः

Authors(1) :-डॉ. दिनेश चौबे

प्रकृतिप्रत्ययोपदेशपुरस्सरपदस्वरूपप्रतिष्ठापकत्वाद् अर्थनिर्णयनकृतसाधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वात् व्याकरणं नामाङ्गं नितान्तमेव महनीयं श्रेष्ठम् अपेक्षितञ्च। व्याकरणतन्त्रे धातुरेव मूलप्रकृतिः स्वीक्रियते। व्याकरणशास्त्रे दश लकाराः वर्तन्ते। तान् दशलकारान् बोधसौकर्याय ग्रन्थकर्त्रा टितः ङितश्चेति भेदेन द्विधा विभागः कृतः। तत्र लट् लिट् लुट् लृट् लेट् लोट् इति षट् टितः लकाराः वर्तन्ते। लङ, लिङ्, लुङ लृङ् इति चत्वारो ङितो लकारा वर्तन्ते इति विभागः। एते लकाराः सकर्मकेभ्यः धातुभ्यः कर्तरि कर्मणि च भवन्ति। अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च भवन्ति। एतेषु लकारेषु विध्यर्थकलकाराणां विचारपुरस्सरं विध्यर्थः मया प्रस्तूयते।

Authors and Affiliations

डॉ. दिनेश चौबे
सहायकाचार्यः, महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयः, उज्जयिनी।

धातुः, लकाराः, नैयायिकः, मीमांसा, विधिः, प्रेरणा,भावना, प्रवर्तना इत्यादयः।

  1. कौण्डभट्टः, वैयाकरणभूषणसारः, शाङ्करीव्याख्योपेतः, आनन्दाश्रम मुद्रालयः,वाराणसी
  2. नागेश। परमलघुमञ्जुषा (ज्यत्स्नाहिन्दीव्याख्योपेतः)। वाराणसी : वाराणसी : मोतिलाल बनारसीदास।
  3. नागेशः, वैयाकरणसिद्धान्तलघुमञ्जुषा, पेरिसूर्यनारायणशास्त्री, (भावप्रकाशव्याख्यासहिता) तिरुपतिः : राष्ट्रीयसंस्कृतविद्यापीठम्।2022
  4. पतञ्जलिः। व्याकरणमहाभाष्यम्  (प्रदीपोद्योतसमुल्लितम्, षष्ठखण्डः)। शास्त्री, सीतारामः (सम्पा0)। चौखम्बा संस्कृत प्रतिष्ठान। देहली 2014
  5. पाणिनिः। अष्टाध्यायी (पदच्छेद-वृत्ति-वार्तिक-टिप्पनी-सहिता)। पाण्डेयः, गोपालदत्तः (सम्पा0)। वाराणसी : चौखम्बा सुरभारती प्रकाशन।2009
  6. भट्टाचार्यः, विश्वनाथपञ्चाननः। न्यायसिद्धान्तमुक्तावली (किरणावलीव्याख्याव्योपेता), शास्त्री, नारायणचरणः (सम्पा0)। वाराणसी  चौखम्बा संस्कृत संस्थान।2014
  7. भर्तृहरिः। 2015। वाक्यपदीयम् (प्रकाशकनारायणटीकाद्वयोपेतम्)। तिवारी, हरिनारायणः (सम्पा0)। वाराणसी : चौखम्बा संस्कृत सीरीज आफिस।

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-21
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 221-226
Manuscript Number : SHISRRJ236632
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. दिनेश चौबे, "लकारेषु विधिः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.221-226, November-December.2023
URL : https://shisrrj.com/SHISRRJ236632

Article Preview