Manuscript Number : SHISRRJ236642
श्रीमद्भागवदुक्तदिशा सांख्यतत्त्वविमर्शः
Authors(1) :-कोन्डूरु हरिबाबु श्रीमन्नारायणः एव स्वयं सांख्यं योगं च अस्मिन् महापुराणे शिष्यान् उपदिदेश। सांख्ययोगदर्शनयोः समग्रतत्वं श्रीमद्भागवते निरूपितम्। पुराणं पञ्चलक्षणमिति यद्यपि प्रसिद्धं श्रीमद्भागवते पुनः विशेषतया दशलक्षणानि निरूपितानि। षड्विंशे अध्याये प्रथमश्लोकद्वयेन सांख्यलक्षणं प्रयोजनं च स्पष्टं निरूपितवान्। अथ ते संप्रवक्ष्यामि तत्त्वानां लक्षणं `पृथक्। यद्विदित्वा विमुच्यते पुरुषः प्रकृतेर्गुणैः ॥ प्रकृतिः सूक्ष्मस्वरूपा दैवी गुणमयी च। गुणाश्च सत्वरजस्तमोरूपाः। गुणैः पूर्णा, गुणैः युक्ता वा गुणमयी। अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः। प्रत्यग्धामा स्वयं ज्योतिर्विश्वं येन समन्वितम् ॥ स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः। यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥
कोन्डूरु हरिबाबु श्रीमद्भागवत् , सांख्यदर्शनम्, कपिलः, पुरुषस्वरूपम्, मोक्षः, हृदयग्रन्धिभेदनम्, प्रकृतिस्वरूपम्, ईश्वरः, सांख्यम्, प्रकृतिः,पुरुषः, सृष्टिः। Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
शोधच्छात्रः,सांख्ययोग, विभागः, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः।
Date of Publication : 2023-11-21
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 272-278
Manuscript Number : SHISRRJ236642
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236642