Manuscript Number : SHISRRJ23699
शुकसन्देशकाव्ये वर्णितानि दिव्यक्षेत्राणि
Authors(1) :-एम्. स्वाती संस्कृतवाङ्मये महाकाव्यानां रचनमेव प्रथमम् अभूत् न केवलं संस्कृतवाङ्मयस्य किन्तु विश्ववाङ्मयेऽपि आद्यं काव्यं श्रीमद्रामायणमेव। रामायणाविर्भावानन्तरम् अश्वघोष-कालिदासादि महाकविकालपर्यन्तं काव्यानि न दृष्टानि। कालिदासः महाकाव्यैः सह खण्डकाव्यमपि मेघसन्देश्वााख्यं रचितवान्। तदेव काव्यं सन्देशकाव्यानाम् आद्यं प्रसिद्धम्।
प्रियेण वियुक्तः प्रिया, प्रियया वियुक्तः प्रियो वा द्वितींय प्रति स्वावस्थानिरूपकं, द्वितीयस्मिन् स्वप्रेम्णः आविष्करणरूपं, प्रियस्य प्रिययाः वा समाश्वासनरूपं सन्देशं प्रेषयति। सन्देशप्रेषणार्थं च कमपि दूतं वृणीते। प्रथमं दूतं गन्तव्यं देशमुक्त्वा स्वनिवास स्थानादारभ्य गन्तव्य प्रदेशपर्यन्तम् अध्वानं विवृणोति। मार्गमध्ये स्थितानां दर्शनीयस्थलानां, दिव्यक्षेत्राणां च वर्णनं कृत्वा तेषु दूतेन आदरो दर्शनीयः इति उपदिशति। कालिदासेन मेघसन्देशकाव्ये दर्शितः एष एव क्रमः इतरैः महाकविभिरपि अनुसृतः।
सन्देशकाव्यपरम्परा केरलीयकविभिः बहुधा आदृता। qत्रशदधिकानि सन्देशकाव्यानि आचार्य यन्.पि.उण्णी इत्यनेन प्रकाशितानि। तेषु अ.ऊ. त्रयोदशशतके लक्ष्मीदासकवेः ‘शुकसन्देशङ्क काव्यं सर्वोत्तमं दृष्टम्।
सन्देशकाव्येषु केरलकवयः कामपि ऊहासुन्दरीं विभाव्य आत्मानं तया वियुक्तं वर्णयितुं किमपि प्रियामपि कल्पयित्वा तन्मुखेन सन्देशं प्रियायै प्रेषयन्ति।
एम्. स्वाती शुकसन्देशः- Edited by Dr. N.P.Unni, Nag Publichers, Jawahar Nagar, Delhi, 1985 Publication Details Published in : Volume 6 | Issue 3 | May-June 2023 Article Preview
शोधच्छात्रा, साहत्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।
Date of Publication : 2023-06-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 83-86
Manuscript Number : SHISRRJ23699
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ23699