लीलाशुकस्य भक्तिसिध्दान्ते महत्तता

Authors(1) :-डॉ. गुरुमध्वातिरूमलाचार्य नवलि

लीलाशुकस्य मुक्तिकारणीभूतभक्तेः स्वरूपं नारदभक्तिसूत्रं तथा श्रुतिस्मृत्यादिसिध्दं वर्तते। भगवदपरोक्षज्ञानहेतुभूतभक्तिः मध्यमस्थानीया। परोक्षज्ञानं शास्त्रापरोक्षज्ञानं भवति। तस्य कारणीभूतभक्तिः प्राथमिकीभक्तिः। गुरूमेवाभिगच्छेत्‌ समित्‌पाणिः श्रोत्रियं ब्रह्मनिष्ठमित्युक्तदिशा शास्त्रे आदरेण नैरन्तर्येणच भगवति भक्तिंकृत्वा शास्त्रापरोक्षं प्राप्नोति मुमुक्षुः। तदनन्तरं तीव्रेण भक्त्युद्रेकेण भगवति, रतःसन्‌ ततः प्रसन्नःसन्‌ परमात्मा अन्तर्हृदये प्रकटो भवति। एतदेवापरोक्षज्ञानमिति शास्त्रे प्रतिपाद्यते। अपरोक्षज्ञानानंतरं ‘यमेवैष वृणुते तेन लभ्यः, ‘महात्मयज्ञानपूर्वस्तु सुदृढः सर्वतोधिकः स्नेहो भक्तिरिति प्रोक्ता तया मुक्तिः नचान्यथा’ इत्यादि श्रुतिसिध्द भगवदत्यर्थ प्रसादजनकभक्तिर्नाम. ‘निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीय समस्तवस्तुभ्यो अनेकगुणाधिकः अन्तरायसहस्रेणाप्यप्रतिबध्दो प्रेमाप्रवाहः’ इति-मळखेडनिवासी श्रीमट्टीकाकृत्पादैः (श्रीमज्जयतीर्थश्री मच्चरणैः) स्वीय श्रीमन्न्यायसुधाग्रन्थे प्रतिपादितवन्तः। तदेव मुक्तिकारणमिति निश्र्चयज्ञानवान्‌ लीलाशुकः श्री मध्वाचार्चाणां अवतारपूर्वमेव स्वीयकृष्णकर्णामृते-“गोपालाङ्गनकर्दमे विहरसे विप्राध्वरे लज्जसे, ब्रूषे गोशतहुकुंतैः स्तुतिशतैः मौनं विधत्से सताम्‌। दास्यं गोकुलसुन्दरीषु कुरुषे स्वाम्यंच दान्तात्मसु, ज्ञातं कृष्णतवांघ्रिपंकजयुगं प्रेमैकलभ्यं परम्‌ ।। इति श्रीकृष्णदर्शनानन्तरमोक्षसाधनीभूतभक्तेः स्वरूपं विशदयन्‌ स्वस्य तादृशभक्तिमत्वं प्रकाशितवान्‌ इत्यत्र सन्देहलेशोऽपि नस्यादिति किंचिदुकत्वा पत्रमेनं यत्करोषि इति भगवदुक्तदिशा श्रीकृष्णपदपद्मयोः भक्त्या समर्पयामि।

Authors and Affiliations

डॉ. गुरुमध्वातिरूमलाचार्य नवलि
संस्कृतविभागाध्यक्षः, नूतन विद्यालय पदवी महाविद्यालयः, कलबुरगि।

मुमुक्षुः, प्रसन्नः, वेदाः, प्रमेयः, लीलाशुकः, भक्तिसिद्धान्तः, परमात्मा, परमचेतनः।

  1. तत्वसंख्यानटीकावचनम्-श्रीमज्जयतीर्थकृतम्
  2. अनुव्याख्यान-श्रीमन्मध्वाचार्यकृत
  3. अनुव्याख्यान-श्रीमन्मध्वाचार्यकृत
  4. तत्वसंख्यानटीकावचनम्-श्रीमज्जयतीर्थकृतम्
  5. श्रीकृष्णकर्णामृतम्-श्रीबिल्वमङ्गलकृतम्

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-01
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-02
Manuscript Number : SHISRRJ24711
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. गुरुमध्वातिरूमलाचार्य नवलि , "लीलाशुकस्य भक्तिसिध्दान्ते महत्तता", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.01-02, January-February.2024
URL : https://shisrrj.com/SHISRRJ24711

Article Preview