Manuscript Number : SHISRRJ2472120
श्रीमद्रामायणे शरणागतितत्त्वम्
Authors(1) :-Dr. S. Sitarama Rao
भारतीयवाङ्मये इतिहासेषु भारत, भागवत, रामायणानि प्रधानभूमिकां वहन्ति। एते ग्रन्थाः भारतीयसंस्कृतेः स्तम्भाः, भारतीयजीवनस्य रहस्याः, विज्ञानस्य धर्माश्च। अत एव ते भारतीयराष्ट्रस्य मूर्तयः अभवन्। यद्यप्येतेषाम् उत्पत्तिः संस्कृते एवाभवत्तथापि ते राष्ट्रभाषास्वपि प्रभावं कृत्वा शाश्वतजीवनेन पूरयन्ति स्म। त्रयोऽपि ग्रन्थेषु रामायणं प्रथमं काव्यं जातम्।
महर्षिः, आदिकविः, महिमोपेतः वाल्मीकिः संस्कृते आदिकाव्यं रामायणं व्यरचयत्। आदर्शमानवजीवनस्याविष्कारार्थमुद्भूतं काव्यं रामायणमित्यत्र नास्ति संशयः। आदर्शः मानवः कथं भवेदिति रामायणं कथयति। कथं न भवितव्यमिति च निरूप्यते। धर्मः नाम कः इति स्पष्टीकृतः अस्मिन् काव्येI अधर्मः कः इत्यपि च उपदिशति।
न केवलमादर्शमानवस्य जीवनमपि तु आदर्शपरिवारस्य जीवनमपि रामायणे सार्थकतया चित्रितमस्ति। अस्यैव श्रीमद्रामायणमहाकाव्यस्य शरणागतिशास्त्रम् इत्यपरं नाम विद्यते। अतः श्रीमद्रामायणमहाकाव्ये शरणागतितत्त्वमिति विषयमधिकृत्य यथाशक्ति अस्मिन् पत्रे निबध्यते।
Dr. S. Sitarama Rao
पादुकापट्टाभिषेकसमये भरतः, सुन्दरकाण्डे काकासुरः, युद्धकाण्डे विभीषणः, श्रीरामस्य शरणागतितत्वम् । Publication Details Published in : Volume 7 | Issue 2 | March-April 2024 Article Preview
Assistant Professor, Department of Paraskara Pourohityam, S. V. Vedic University, Tirupati, India
Date of Publication : 2024-04-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-07
Manuscript Number : SHISRRJ2472120
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472120