कातीयचातुर्मास्ययागान्तर्गतं वैश्वदेवपर्वणः स्वरूपम्

Authors(1) :-डॉ. रणजीत कुमार

चातुर्मास्यप्रयोगप्रारम्भः फाल्गुन्यां भवति। चातुर्मास्यानां प्रथमं पर्व वैश्वदेवपर्व वर्तते। वैश्वदेवधर्माश्चातुर्मास्येषु वचनप्रवृत्तिभ्यामिति अर्थात् वैश्वदेवस्य धर्माः उत्तरेषु पर्वसु प्रवर्तन्ते। वैश्वदेवं अन्येषां वरुणप्रघास-साकमेध-शुनासीरीय-पर्वणां प्रकृतिः वर्तते। चातुर्मास्यारम्भे अन्वारम्भणीया इष्टिः अथवा वैश्वानरपार्जन्येष्टिः क्रियते ।वैश्वदेवे अष्टौ प्रधानदेवताः सन्ति। वैश्वदेवपर्वणि नव प्रयाजाः नव अनुयाजाश्च भवन्ति। वैश्वदेवपर्वणि प्रस्तरः कुशप्रस्वः भवति। वैश्वदेवपर्वणि समिष्टयजूंषि मन्त्रत्रयेण जुहुयाद्। प्रथमजो गौर्दक्षिणा। यजमानस्य गोष्ठे प्रथमं जातः प्रथमजः तादृशः गौः वैश्वदेवपर्वणः दक्षिणात्वेन देयः। अस्य पर्वणः प्रजाश्रीफलसाधनत्वं ब्राह्मणे उक्तम् । वैश्वदेवपर्वणिदर्शपूर्णमासविधयः अतिदिष्टाः। प्रकृतिवद् विकृतिः कर्त्तव्या इति। अतः अस्य यागस्य विशिष्टविधयः एव अत्र वर्ण्यन्ते। प्रधानयागस्य शतपथब्राह्मणे विहितं वर्णनं विशेषतया उक्त्वा तस्य सामाजिकपक्षः कथयिष्यते।

Authors and Affiliations

डॉ. रणजीत कुमार
सह आचार्यः, संस्कृत-पालि एवं प्राकृत-विभागः, हिमाचलप्रदेश-केन्द्रीयविश्वविद्यालयः, धर्मशाला

चातुर्मास्यम्, वैश्वदेवपर्व, अष्टौ प्रधानदेवताः, स्वतवसः मरुतः, प्रयाजाः, अनुयाजाः, कुशप्रस्वः, पयस्या, प्रजाः, सृष्टिः, पयोरूपमन्नम् ।

  1. श्रीमद्वाजसनेयिमाध्यन्दिन-शतपथ-ब्राह्मणम्, सायणाचार्यविरचित-वेदार्थ-प्रकाशाख्यभाष्यसमेतम्, नाग प्रकाशन, जवाहर नगर, दिल्ली
  2. शतपथ-ब्राह्मणम् भाग 1 एवं 2, स्व. पण्डित गंगाप्रसाद उपाध्याय विरचितया “रत्नदीपिका” हिन्दी टीकायोपेतम्, सार्वदेशिक आर्य प्रतिनिधि सभा, रामलीला मैदान, नई दिल्ली-2, 1998
  3. श्रीमन्महर्षिकात्यायनप्रणीतम्,कात्यायनश्रौतसूत्रम्, चौखम्बा संस्कृत प्रतिष्ठान, बंगलो रोड, जवाहर नगर, दिल्ली,द्वितीय संस्करण -1990
  4. पाणिनीयः अष्टाध्यायीसूत्रपाठः, सम्पादकः श्री पं० ब्रह्मदत्त जिज्ञासु, रामलाल कपूर ट्रस्ट, रेवली, सोनीपत, हरियाणा, सितम्बर 2006
  5. श्रौतयज्ञों का संक्षिप्त परिचय, म.म.पं. युधिष्ठिर मीमांसक, विजयपाल विद्यावारिधि, रामलाल कपूर ट्रस्ट, रेवली, मुरथल, सोनीपत (हरियाणा)
  6. दर्शपौर्णमासपद्धतिः, पण्डित भीमसेन शर्मा, रामलाल कपूर ट्रस्ट, रेवली, मुरथल, सोनीपत (हरियाणा)

Publication Details

Published in : Volume 7 | Issue 6 | November-December 2024
Date of Publication : 2024-12-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 126-133
Manuscript Number : SHISRRJ24779
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. रणजीत कुमार, "कातीयचातुर्मास्ययागान्तर्गतं वैश्वदेवपर्वणः स्वरूपम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 6, pp.126-133, November-December.2024
URL : https://shisrrj.com/SHISRRJ24779

Article Preview