Manuscript Number : SHISRRJ25838
करणकारक-स्वरूपविवेचनम्
Authors(1) :-डॉ.अर्चना कुमारी भाषाविज्ञानान्तर्गतं वाक्यरचनानिमित्तं कारकस्य विशिष्टं महत्त्वं वर्तते । इत्थं तत्रादौ कारकशब्दस्य व्युत्पत्तिं प्रदर्श्य महाभाष्योक्तप्रमाणपुरस्सरं नागेशोक्तं कारकलक्षणं “क्रियानिष्पादकत्वं कारकत्वमिति” उदाहरणसहितमुपन्यस्तम् । ततः काशिकोक्तं “क्रियानिमित्तं कारकमिति” लक्षणमसङ्गतमिति प्रतिपादितम् । तदनन्तरं कारकस्य साधनत्वं साधितम् । अग्रे षट् कारकाण्युक्त्वा कारकविभक्त्योः भेदः प्रदर्शितः । तेषु कारकेषु करणस्वरूपावबोधाय “साधकतमं करणम्” इति सूत्रस्य दीक्षितभर्तृहरिनागेशानामाचार्याणां मतानुगुणं विस्तृता व्याख्या सम्पादिता । अग्रे तमब्ग्रहणप्रयोजनविचारः प्रस्तुतः । तेन एकाधिककरणबोधकानां प्रयोगः प्रदर्शितः । “गङ्गायां घोषः” इति तमब्ग्रहणस्य फलं प्रतिपादितम् । ततः करणकारके प्रयुज्यमानः तृतीयार्थः विभिन्नानामाचार्याणां मते उपन्यस्तः । एवमत्र समासेन करणकारकस्वरूपं विवेचितमस्ति ।
डॉ.अर्चना कुमारी शब्दः, अर्थः, कारकम्, साधकम्, क्रियानिष्पादकत्वम्, साधनम्, करणत्वम्, आधारः, बोधकः, तमब्ग्रहणम्, शब्दसामर्थ्यः, प्रकर्षः, गंगायां घोषः, तृतीयाविभक्तिः, तृतीयार्थः, कारणम्, व्यापारः, एकाधिकरणम्, आश्रयः । Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
सहायकाचार्या, संस्कृत-विभागः, हिमाचल प्रदेश केन्द्रीय विश्वविद्यालयः, धर्मशाला,काङ्गड़ा (हि.प्र.)
Date of Publication : 2025-01-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 214-219
Manuscript Number : SHISRRJ25838
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ25838