योगदर्शने अभिहितशैक्षिकतत्वानि

Authors

  • डॉ. दिनेशकुमारयादव सहायकाचार्य: श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालय:, नवदेहली

Abstract

भारतीयचिन्तनपरम्परायाः षट्सु आस्तिकदर्शनेषु महर्षिपतञ्जलिप्रणीतं योगदर्शनम् अत्यन्तप्राचीनतमम्। मोक्षस्य कृते एव योगस्य उदय: सञ्जातः। "युज् समाधौ" इति धातोः योगशब्दस्य निष्पत्तिः। आत्मन: परमात्मनि विलय एव योग उच्यते। योगदर्शनस्यानुसारं योगस्य तात्पर्यं भवति - योगश्चित्तवृत्तिनिरोधः। अर्थात् चित्तवृत्तेः निरोधः योग इति कथ्यते ।
योगदर्शने शिक्षायाः अर्थः -
पतञ्जलिमतानुसारं शिक्षा एका दार्शनिकी तथा मनोवैज्ञानिकी प्रक्रिया भवति। एतत् योगस्य परिभाषायां लभ्यते यथा- अथ योगानुशासनम्, योगश्चित्तवृत्तिनिरोधः इति। योगसूत्रानुसारं शिक्षाया: अर्थो भवति उपदेश:। महाभाष्ये लिखितं वर्तते- शिक्षा एका एषा प्रक्रिया भवति यया मनुष्य: स्वस्य लौकिककर्म कर्तुं समर्थः तथा योग्य: भवति। संसारस्य ज्ञानात्मज्ञानप्राप्त्यर्थं श्रेष्ठसाधनं शिक्षा इति।

Keywords:

References

  1. यो. द.- योगदर्शनम् (पातञ्जलयोगदर्शनम्, श्रीवास्तव: डॉ. सुरेशचन्द्र:)
  2. सां. प्र. भा. – सांख्यप्रवचनभाष्यम् (सांख्यकारिका, मिश्र: वाचस्पति)
  3. तै. उ. - तैतिरीयोपनिषद् (शास्त्री डॉ. रामकृष्ण:)
  4. अ. को. - अमरकोशः अ.पु. (शास्त्री पं. श्रीहरिगोविन्द:
  5. अ. पु.- अग्निपुराणम् (द्विवेदी आचार्य: शिवप्रसाद:)
  6. मनु – मनुस्मृति: (आचार्य: शिवराज कौण्डिन्यायन:)

Downloads

Published

2024-01-30

Issue

Section

Research Articles

How to Cite

[1]
डॉ. दिनेशकुमारयादव, " योगदर्शने अभिहितशैक्षिकतत्वानि " Shodhshauryam International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.165-169, January-February-2024.