भारतीयदर्शने व्यक्तित्त्वम्

Authors(1) :-वरुणसौरभपोखरियालः

-‘व्यक्तित्त्वं’ शब्दोऽयं अत्यन्तव्यापको वर्तते। सामान्यतया वक्तुं शक्यते यत् व्यक्तेः सारतत्त्वं व्यक्तित्त्वम्। व्यक्तेः सम्पूर्णगुणानां लक्षणानाञ्च समावेशः व्यक्तित्त्वमुच्यते। लोकव्यवहारे विविधेषु अर्थेषु प्रयुज्यते अयं शब्दः। प्रायः बाह्यस्वरूपं व्यक्तित्त्वमुच्यते। इदं स्त्रीषु पुरुषानुरागजनकत्वेन सह पुरुषेषु स्त्रीमनोमुग्धकारित्त्वं संस्कृतसाहित्याकाशे विविधेषु वैदिकलौकिकपुराणादिषु विशिष्टार्थे प्रयुज्यमानम् उपलभ्यते। अव्यक्त्तं रहस्यमपि परपुरुषचित्ताकर्षिका एका विशिष्टा शक्तिः भवति व्यक्तित्वम्। अस्य पदस्य प्रयोगः बौद्धिकसांवेगिकसामाजिकाध्यात्मिकगुणानाञ्च अभिव्यञ्जनाय अपि अवलोक्यते। अस्मिन् विषये मनोवैज्ञानिकेषु अपि मतैक्यं नोपलभ्यते। केचन व्यक्तित्त्वं चरित्रस्वभावयोः गुणविशेषरूपेण स्वीकुर्वन्ति, केचन समस्तशारीरिकमानसिकविशिष्टगुणान् व्यक्तित्वमिति स्वीकुर्वन्ति। कथयितुं शक्यते यत् व्यक्तेः विविधमानसिकक्रियाकलापानां मूलप्रवृत्तिसंवेदनकल्पनाचिन्तनादीनां सामञ्जस्यपूर्णं व्यवस्थितस्वरूपमेव भवति व्यक्तित्वम्।

Authors and Affiliations

वरुणसौरभपोखरियालः
शोधच्छात्रः, शिक्षाशास्त्रविभागः, न्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली, लखनऊपरिसरः, लखनऊ, उत्तरप्रदेशः

मानवः न शारीरिकमात्रमेव, शरीरं तु केवलं बाह्यावरणम् अचेतनप्रकृतिरूपात्मकमन्नमयकोशेन परिपोषितं स्थूलञ्च भवति। वस्तुतः व्यक्तित्त्वं स्वात्मनिष्ठतत्त्वानामवगमनं साक्षात्कारश्च भवति। गुणत्रयात्मिका प्रकृतिः भवति।

  1. श्रीमद्भगवद्गीता
  2. सांख्यकारिका
  3. पैंगलोपनिषद्
  4. Archak, K.B., Personality development in Sanskrit literature

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-158
Manuscript Number : SHISRRJ2033314
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

वरुणसौरभपोखरियालः , "भारतीयदर्शने व्यक्तित्त्वम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 3, Issue 3, pp.156-158, May-June.2020
URL : https://shisrrj.com/SHISRRJ2033314

Article Preview