Manuscript Number : SHISRRJ221220
साम्प्रतिककाले शिक्षाजगति मूल्याङ्कनस्यावश्यकता
Authors(1) :-डा. दत्तहरि बेहेरा "शिक्ष विद्योपादाने" इति धातोः टाप् प्रत्ययात् शिक्षा इति शब्दः निष्पन्नः। तदनुसारं शिक्षयते उपादीयते विद्या यया सा शिक्षा । अर्थात् येन विद्या उपार्जनं क्रियते, सा अज्ञानरूपि बन्धनात् मुक्तिप्रदात्री भवति। अधिगम प्रदानस्यापेक्षया स्वतः अधिगमस्य योग्यतोपरि बलं दीयते। तदर्थं प्रत्येकं बालकस्य शिक्षणाय वैयक्तिकावधानं परमावश्यकम् । व्यक्तिगतशिक्षणं शिक्षामनोविज्ञानेनैव सम्भवति। शिक्षायाः उद्देश्यमस्ति यत् बालके सक्रियतया जन्मजातशक्तीनां विकासकरणमेव। अतएव शिक्षाप्रदानस्य प्रक्रिया अपि जटिला सञ्जाता । अतः एतादृश्यां परिस्थितौ अध्यापकानां कर्तव्यं भवति यत् ते बालकस्य शारीरिक- मानसिक - योग्यता - रुचिनामध्ययनं कृत्वा तस्य क्षमतानां योग्यतानाञ्चानुरूपेण शिक्षयेयुः। मानवीयव्यवहारं परिशीलयति मनोविज्ञानशास्त्रम् । शिक्षा व्यवहारस्य विपरिणाम सम्पादने महत्वपूर्णं साधनं भवति । अतः अनयोर्मध्ये अत्यन्त निकटतमः सम्वन्धः वर्त्तते। बालमनोविज्ञानं विना अध्यापकैः स्वीय कार्यं सुष्ठु सम्पादयितुं न शक्यते । स्वाभिलषितरीत्या छात्रेषु व्यवहारसंपादनाय मनोविज्ञानस्य ज्ञानमनिवार्यं भवति। मूल्याङ्कने सम्पूर्णव्यक्तित्वस्याकलनं क्रियते। प्रायः मूल्याङ्कने एतत् ज्ञायते यत् पूर्वनिर्धारित मानदण्डानुसारं शिक्षासेवायाः कृते छात्रः उत्तीर्णः भवति उत न । प्रायः अस्मिन् एतत्सरूपं दृश्यते चर्चा, सहयोगः, उपस्थितिः शाब्दिक क्षमता च । मापन प्रक्रिया अन्तर्गत कस्यचित् वस्तुनः आङ्गिक स्वरुपः (Quantitative Forum) प्रदीयते । परं मूल्याङ्कने तस्यैव वस्तुनः मूल्यं गुणवत्ता वा निर्धार्यते ।शिक्षाक्षेत्रे मूल्याङ्कनमेकं प्राबिधिक शब्दरुपेण प्रयुज्यते । अस्यां प्राविधिकप्रक्रियायां न केवलं छात्रस्य विशेषविषयसम्बन्धियोग्यतानां ज्ञानं प्राप्यते। अपि तु शिक्षणं पाठ्यक्रमः शिक्षणाविधीनां सफलतेति विषये सूचनाः प्राप्यन्ते। एतैः सह छात्रस्य सम्पूर्णव्यक्तित्वविकाससीमान्तज्ञानाय मूल्याङ्कनप्रक्रियायाः साहाय्यं स्वीक्रियते। एतस्य शोधसारस्य वर्णंनं शोधपत्रे करिष्यते।
डा. दत्तहरि बेहेरा मूल्यांकनम्, आकलनं, वस्तुनिष्ठ, शिक्षणव्यूह, परिणाम आदयः। Publication Details Published in : Volume 5 | Issue 2 | March-April 2022 Article Preview
सहाध्यापकः, शिक्षाशास्त्रविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी
Date of Publication : 2022-03-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 131-135
Manuscript Number : SHISRRJ221220
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ221220