मनुस्मृतौ परिवेशविज्ञानम्

Authors(1) :-डा.सुधांशुशेखरमहापात्रः

सच्चिदानन्दमयपरब्रह्मणोंऽशसम्भूतत्वेन मानव आत्मनोऽस्तित्वं चिरं वाञ्छति। परन्तु यद्यपि जातस्य हि ध्रुवो मृत्युस्तथापि मानवः यावज्जीवति तावत्पर्यन्तं सुखेन सुस्थभावेन च जीवितुं यतेत। शरीरस्य सुस्थतायै उपयुक्तश्वासप्रश्वासवायुः शुद्धं जलं परिपुष्टं भोजनं चापेक्ष्यन्ते। एतानि सर्वाणि युगपदवाप्तुमेकः एतादृशः परिवेशोऽपेक्ष्यते येनास्माकं शरीरं सुस्थं तिष्ठति। अस्माकं चतुर्षु पार्श्वेषु विद्यमानाः प्राणिजातय उद्भिदश्च परिवेशशब्देन व्यवह्रियन्ते। परिवेशो दूषितश्चेत् शुद्धमन्नं शुद्धजलादिकं शुद्धश्वासप्रश्वासानुकूलोऽम्लजानसंज्ञको वायुश्च नैव सुलभाः स्युः येन मानवस्यास्तित्वमपि नश्येत्। भारतीयधर्मशास्त्रेषु प्रकृतीनामुपासना विहिता। प्रकृतिः खलु परिवेशस्य जननी। प्रकृतीनां तुष्टिद्वारा परिवेशः शान्तो मधुमयो भोगयोग्यश्च भवति, अन्यथा विनाशाय कल्प्यते। स्थालीपुकान्यायेन भारतीयधर्मशास्त्रेषु मनुस्मृतौ परिवेशसुरक्षायै शुद्धतायै च या व्यवस्था विहिता सा साम्प्रतं मया आलोच्यते।

Authors and Affiliations

डा.सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।, भारत

मनुस्मृतौ, परिवेशः, पञ्चमहाभूतानि, पञ्चमहायज्ञाः, प्रकृतिः, वृक्षाणाम्।

  1. मनुस्मृतिः - 1/6
  2. मनुस्मृतिः – 1/75-78
  3. मनुस्मृतिः - 3/74
  4. मनुस्मृतिः – 3/76
  5. मनुस्मृतिः – 4/56
  6. मनुस्मृतिः -6/46
  7. मनुस्मृतिः -11/63-64
  8. मनुस्मृतिः – 11/142, 11/64
  9. मनुस्मृतिः – 8/285
  10. याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः -227-229

Publication Details

Published in : Volume 5 | Issue 3 | May-June 2022
Date of Publication : 2022-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 37-40
Manuscript Number : SHISRRJ22536
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा.सुधांशुशेखरमहापात्रः , "मनुस्मृतौ परिवेशविज्ञानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 3, pp.37-40, May-June.2022
URL : https://shisrrj.com/SHISRRJ22536

Article Preview