ग्रामीणविद्यालयेषु महिलाध्यापिकानां पर्यावरणीयचेतनायाः समीक्षा

Authors(2) :-डॉ. आर् एल् नारायणसिंहः, प्रतिभा

प्रकृत्या सह मानवजीवनस्य सम्बन्धः सृष्टेः सभ्यतायाश्च आरम्भकालादेव वर्तते । मानवानां सभ्यताः संस्कृतयः च प्रकृतेः संरक्षणे एव पुष्पिताः पल्लविताः फलिताश्चाभवन् । प्रकृतिः मनुष्याणां पोषणसंवर्धनमकरोत् । मानवेन प्रकृतेः संरक्षणं सम्मानञ्च कृतम् । मानवस्य पर्यावरणस्य च घनिष्ठः सम्बन्धः वर्तते । द्वयोः एकस्यैव ईश्वरस्य कृती वर्त्तेते । एतावेव अस्याः सामाजिकसंरचनायाः स्तम्भौ वर्तेते। अनयोः यदि एकोऽपि स्तम्भः स्खलेत् चेदन्यः सामाजिकसंरचनायाः भारं वोढुम् अशक्तो भवेत् सामाजिकव्यवस्था च सर्वथा भिद्येत् तस्याः संरचनायाः ध्वंसनं च स्यात् । अत्र नार्येव राष्ट्रस्याधारशक्तिरूपेण राजते । महात्मागान्धिमहोदयेनापि स्वकीये महिलापुरुषसाम्यसिद्धान्ते कथितं यत् " महिलाः कथमपि पुरुषाणामपेक्षया शक्तिहीनाः न" इति । महाराजेन मनुनापि मनुस्मृति इति नामके ग्रन्थे नार्याः महत्तायाः विवेचनं कुर्वता स्पष्टीकृतं यत् – "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।यत्रैतास्तु न पूज्यन्ते तत्र सर्वाफलाः क्रियाः॥ अर्थात् यत्र नार्याः पूजा (सम्मानं) भवति तत्र देवता अपि निवसन्ति । यत्र एतासां पूजा (सत्कारं) न भवति तत्र सर्वाणि अपि कर्माणि असफलानि भवन्ति । इत्युक्ते कियन्त्यपि धर्मानुष्ठानानि कुर्मः परन्तु सर्वाण्यपि असफलानि भवन्ति । तेषां कर्मणां फलं न प्राप्यते।

Authors and Affiliations

डॉ. आर् एल् नारायणसिंहः
सहाचार्यः,शिक्षाशास्त्रविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, भोपालम्, भारत।
प्रतिभा
शोधच्छात्रा, शिक्षाशास्त्रविभागः, न्द्रीयसंस्कृतविश्वविद्यालयः, भोपालम्, भारत।

विद्यालयः, पर्यावरणम् , शिक्षा, अध्यापिका, विद्यार्थी ।

  1. शिक्षा एवं संस्कृतिः नये सन्दर्भ, डॉ. भास्कर मिश्र, भावना प्रकाशन, 1995
  2. धर्म का समाजशास्त्र, डॉ. कमलस्वरूप श्रीवास्तव, प्रकाशन कुटीर, 2018
  3. ग्रामीण एवं नगरीय समाजशास्त्र, डॉ. अशोक डी. पाटिल, हिन्दी ग्रन्थ अकादमी भोपाल
  4. संस्कृत साहित्य एवं पर्यावरण, अग्निहोत्री प्रभुदयाल , ईस्टर्न बुक लिंकर्स दिल्ली 2011पृ. सं. 413
  5. सामाजिक शिक्षा की अवधारणा, महेश भार्गव, निशी गोयल, राखी प्रकाशन, 2011

Publication Details

Published in : Volume 5 | Issue 5 | September-October 2022
Date of Publication : 2022-10-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 39-42
Manuscript Number : SHISRRJ22559
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. आर् एल् नारायणसिंहः, प्रतिभा, "ग्रामीणविद्यालयेषु महिलाध्यापिकानां पर्यावरणीयचेतनायाः समीक्षा ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 5, pp.39-42, September-October.2022
URL : https://shisrrj.com/SHISRRJ22559

Article Preview