विभिन्नोपनिषत्सु प्राप्तयौगिकमुद्राणां पर्यालोचनम्

Authors(1) :-डॉ. मणिकान्ततिवारी

वैदिकमार्गीयाखण्डानन्दपरब्रह्मस्वरूपज्ञाने मार्गद्वयं मुख्यत्वं भजते – कर्ममार्गः ज्ञानमार्गश्च। ‘तेन त्यक्तेन भुञ्जीथाः’, ‘कुर्वन्नेह कर्माणि॰’ इत्यादिमन्त्रैः कर्ममार्गस्य यथार्थत्वं प्रतिपाद्य ज्ञानमार्गस्थसारतत्त्वस्याहं ब्रह्मास्मि इत्यादिना जीव एव ब्रह्म प्रतिपादने निरताः वेदपुरुषाः। सर्वकालिक-सर्वनियन्तृ-खण्डाखण्ड-खण्डाखण्डशुद्धब्रह्मस्वरूपस्य प्राप्तिक्रमे नैकमार्गाः स्वकीयवैदिकाचार्यैः प्रदर्शिताः। तस्मिन् मार्गविभागस्य सर्वाधिकप्रसिद्धभक्त्यादिविभागेषु योगमार्गस्य साङ्ख्येन युगपत् वर्णनदृष्ट्या नैकोपनिषदां ज्ञानात्मकानुसन्धानेन सह प्रयोगात्मकपक्षाणाम् अपि अत्यन्तविस्तृतवर्णनं प्राप्यते। ज्ञानात्मकयोगशास्त्रीयोपनिषत्सु नारदपरिव्राजकसंन्यासब्रह्मविद्यासीतामैत्रायणीकृष्णयजुर्वेदीयामृतनादयुक्तिकात्मबोध नारायणाथर्वशिरजाबालपरमहंसपरिव्राजकशारीरकसुबालस्कन्दात्मगर्भोपनिषत्सञ्ज्ञकाः अत्यन्तप्रसिद्धाः सन्ति। प्रयोगप्रधानयोगशास्त्रीयोपनिषत्सु ब्रह्मबिन्दुमहोपनिषत्तेजोबिन्दुवराहध्यानबिन्दुनादबिन्दुयोगकुण्डलिनीमण्डलब्राह्मणक्षुरिकयोगशिखायोगतत्त्वयोगराजोपनिषत्सञ्ज्ञकाः योगसाधकेषु प्रसिद्धाः सन्ति। अस्मिन् लेखे प्रमुखयौगिकोपनिषत्सु व्यक्तप्रयोगप्रधानज्ञानस्य प्रयोगात्मकरीत्या एव वर्णनमभिमतम्। इमं भावं मनसि निधाय प्रस्तूयते।

Authors and Affiliations

डॉ. मणिकान्ततिवारी
सहायकाचार्यः, योगविज्ञानविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीसदाशिवपरिसरः, पुरी, भारत।

दशमुद्राः, महामुद्रा, महाबन्धः, महावेधः, खेचरीमुद्रा, त्रिबन्धः, विपरीतकरणी, वज्रोलिः, योगपरम्परा, योगसाधना, तेजबिन्दूपनिषद्, वराहोपनिषद्, ध्यानबिन्दूपनिषद्, नादबिन्दूपनिषद्, योगशिखोपनिषद्, योगतत्त्वोपनिषद्, योगराजोपनिषद् ।

  1. योग उपनिषद् संग्रह – स्वामी अनन्त भारती- चौ॰ पब्लिशर्स, वाराणसी, 2015
  2. हठयोग प्रदीपिका - स्वात्मारामः - गोरक्षनाथमन्दिरः गोरखपुर - वि.सं. 2058
  3. गोरक्षसंहिता - श्रीगोरक्षनाथः – गोरक्षनाथमन्दिरः, गो. - वि.सं. 2058
  4. घेरण्डसंहिता( हि.व्याख्या ) - श्री घेरण्डः, डाँ.राघवेन्द्र शर्मा राघवः- चौ.सं.प्रतिष्ठान दिल्ली - 2009 .
  5. पातञ्जलयोगदर्शनम् – पतञ्जलिः- चौ.सं. प्रकाशन वा. - वि.स. 2067
  6. योगरसायनम् - स्वामिब्रह्मानन्द - पांडुरंग जाव प्रेस मुम्बई
  7. शिवसंहिता(हि.व्याख्या) - डाँ.राघवेन्द्र शर्मा राघवः - चौ.सं.प्रतिष्ठान दिल्ली - 2011 
  8. शैवोपनिषदः - महादेव शास्त्री - ओरियन्टल बुक सेन्टर दि. - 2008 ई.
  9. सिद्धसिद्धान्तपद्धतिः- श्रीगोरक्षनाथः, स्वामीद्वारिकादासशास्त्री - चौखम्बा विद्याभवन वा.- 2006 ई.
  10. 108 उपनिषद् साधना खण्ड, रामशर्मा आचार्य , शांति कुंज हरिद्वार, 2005 ई.

Publication Details

Published in : Volume 5 | Issue 6 | November-December 2022
Date of Publication : 2022-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 75-85
Manuscript Number : SHISRRJ22570
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मणिकान्ततिवारी, "विभिन्नोपनिषत्सु प्राप्तयौगिकमुद्राणां पर्यालोचनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 6, pp.75-85, November-December.2022
URL : https://shisrrj.com/SHISRRJ22570

Article Preview