व्यक्तित्वविकासे योगप्रकाराः आवश्यकताश्च

Authors(1) :-डॉ. अनुपविश्वासः

जगति प्रत्येकस्मिन् मनुष्ये साधारणा असाधारणाश्च गुणाः भवन्ति। एते गुणाः अन्येभ्यः मनुष्येभ्यः एनं पृथक्कृत्वा प्रदर्शयन्ति। एतेषां धर्माणां समुदाय एव व्यक्तित्वमिति उच्यते। तद्यथा- उत्साहः, धैर्यं, दया, स्थिरचित्तत्वं, दास्यबुद्धिः, अधिकारप्रियत्वं, क्रोधः, गर्वः, क्षमा इत्यादयः भवन्ति। एते विरुद्धाः अविरुद्धाश्च गुणाः भवन्ति। मनुष्ये समाजविरुद्धगुणानाम् आधिक्येन तस्य अशोभनव्यक्तित्वमिति, मनुष्ये समाजाविरुद्धगुणानाम् आधिक्येन तस्य शोभनव्यक्तित्वमिति उच्यते। समाजिकविरुद्धाविरुद्धगुणानाञ्च आधिक्ये वंशधर्मपरिवेशयोः प्रभाव भवति। अपेक्षाणाम् अपूर्तौ जीवे उद्रिक्तता उत्पन्ना भवति, तेन असन्तुलितव्यक्तित्वं सम्भवति। शारीरिकदृष्ट्या मानसिकदृष्ट्या च स्वस्थः एव स्वस्थः इति स्वीक्रियते। अतः व्यक्तित्वविकासाय, शोभनव्यक्तित्वाय, सन्तुलितव्यक्तित्वाय, शारीरिकमानसिकशक्तीनां विकासाय योगस्य महत्त्वपूर्णं योगदानं भवति। तद्यथा - योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन। योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥ योगविद्या भारतवर्षस्य अमूल्यनिधिः वर्तते। पुराकालद् एव अविच्छिन्नरूपेण गुरुपरम्परा यतः प्रचलिता आसीत् तद्वत् गुरूपरम्परेयम्। वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धम् अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञानं वर्तते। अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन्। वेदानामाधारेण भारतीयानां षट् आस्तिकदर्शनानि सन्ति। दृश्यते अनेन इति दर्शनम्। येन सूक्ष्मतत्त्वानां ज्ञानपूर्वकदर्शनं भवति तदेव दर्शनशास्त्रं कथ्यते। तद्यथा- सांख्यदर्शनम्, योगदर्शनम्, न्यायदर्शनम्, वैशेषिकदर्शनम्, वेदान्तदर्शनम्, मिमांसदर्शनम् इति। सांख्ययोगात् योगदर्शनम् उत्पन्नमिति , सांख्यदर्शनं सिद्धान्तपक्षः योगदर्शनं प्रयोगात्मकमिति केषाञ्चनाभिमतं विद्यते।

Authors and Affiliations

डॉ. अनुपविश्वासः
सहायकाचार्यः, शिक्षाशास्त्रविभागः, एकलव्यपरिसरः (त्रिपुरा), केन्द्रीयसंस्कृतविश्वविद्यालयः।

योगशिक्षा, पातञ्जलयोगदर्शनम्, योगसूत्रम्, योगप्रकाराः, महाभारतम्, वेदः इत्यादयः।

  1. श्रीवास्तव, सुरेशचन्द्र. (2008). पातञ्जलयोगदर्शनम्. वाराणसी. सुरभारतीप्रकासन।
  2. शर्मा, आचार्यश्रीनिवास. (2010). घरेण्डसंहिता. दिल्ली. चौखाम्वा विद्याभवन।
  3. Mahatani, Renu. () Power Pranayama (Hindi). JaicoPublishers.
  4. टिलक, राजीवजैन. (2013). सम्पूर्ण योग विद्या. मञ्जुल प्राकाशन।
  5. यागानन्द, परमहंस. (2014). योगी कथामृत. योगदा सत्सङ्ग सोसाइटि अफ इन्डिया।
  6. वर्णवाल, सुरेश. डा. पाण्ड्या, प्रणव. (2010). योग और मानसिक स्वास्थ. दिल्ली. सारदा प्राकाशन।

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 06-11
Manuscript Number : SHISRRJ23652
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. अनुपविश्वासः, "व्यक्तित्वविकासे योगप्रकाराः आवश्यकताश्च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.06-11, September-October.2023
URL : https://shisrrj.com/SHISRRJ23652

Article Preview