Manuscript Number : SHISRRJ24756
त्रिदोषसमतायै प्राणायामस्य विशेषयोगदानम्
Authors(2) :-राहुल शर्मा, डी0 ज्योति
आयुर्वेदशास्त्रे उक्ताः इमे त्रयः दोषाः वातपित्तकफश्च एव वस्तुतः अस्माकं शरीरं धारयन्ति अतः उच्यते दोषधातुमलमूलं हि शरीरं तदर्थम् एतेषां दोषाणां विषये अस्माभिः अवश्यं ज्ञातव्यम्। ज्ञात्वा च प्राणायामाभ्यासः कर्तव्यः, येन विकाराः अथवा रोगाः उत्पन्नाः न भवेयुः। येन अस्माभिः स्वस्थानन्दमयजीवनञ्च यापितुं शक्यते। अतः उच्यते स्वस्थस्य रक्षणं कुर्यात्। एवमेव आध्यात्मिकविकासाय अपि योगः महत्वपूर्णां भूमिकां निर्वहति। योगद्वारा आध्यात्मिकविकासः सुतरां जायते। समाधिपर्यन्तं मूलचक्राणां नियन्त्रणं कुर्माङ्गानीव इन्द्रियनिग्रहः विषयपरिपालनता च जीवने आयाति। आत्मनियन्त्रणम् आत्मानुशासनम् आत्मज्ञानञ्च योगेनैव भवितुं शक्नोति। वस्तुतः योगायुर्वेदे तादृशं विज्ञानमस्ति येन स्वास्थ्यं मनोशान्तिः हृदयाह्लादः आत्मबलं च प्राप्यते इत्याशयः। एवं प्रकारेण योगमाध्यमेन एकत्र रोगाणां निवृत्तिः भवति, अपरत्र जीवने स्फूर्तिरपि जायते। इति योगशास्त्रस्य वैशिष्ट्यम्।
राहुल शर्मा प्रस्पन्दनम्, उद्वहनम्, पूरणम्, विवेकः, धारणम्, वातदोषाय प्राणायामः, कफदोषाय प्राणायामः, त्रिदोषवर्णनम्। Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
अनुसन्धानकर्ता, साङ्ख्ययोगविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपति
मार्गदर्शिका, साङ्ख्ययोगविभागाध्यक्षा, राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपति
डी0 ज्योति
Date of Publication : 2024-10-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 31-41
Manuscript Number : SHISRRJ24756
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ24756